Download HinduNidhi App
Misc

श्री वराहाष्टोत्तरशतनाम स्तोत्रम्

Sri Varaha Ashtottara Shatanama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री वराहाष्टोत्तरशतनाम स्तोत्रम् ||

ध्यानम्

श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं
दंष्ट्राकरालवदनं धरया समेतम् ।
ब्रह्मादिभिः सुरगणैः परिसेव्यमानं
ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥

स्तोत्रम्।

श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः ।
निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥

हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः ।
लयोदधिविहारी च सर्वप्राणिहितेरतः ॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥

सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः ।
पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥

महाकोलो महाबाहुः सर्वदेवनमस्कृतः ।
हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः ॥

यज्ञभृद्यज्ञकृत्साक्षी यज्ञाङ्गो यज्ञवाहनः ।
हव्यभुक् हव्यदेवश्च सदाऽव्यक्तः कृपाकरः ॥

देवभूमिगुरुः कान्तो धर्मगुह्यो वृषाकपिः ।
स्रवत्तुण्डो वक्रदंष्ट्रो नीलकेशो महाबलः ॥

पूतात्मा वेदनेता च वेदहर्तृशिरोहरः ।
वेदान्तविद्वेदगुह्यः सर्ववेदप्रवर्तकः ॥

गभीराक्षस्त्रिधामा च गभीरात्माऽमरेश्वरः ।
आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः ॥

सिन्धुतीरनिवासी च क्षेमकृत्सात्त्वतां पतिः ।
इन्द्रत्राता जगत्त्राता चेन्द्रदोर्दण्डगर्वहा ॥

भक्तवश्यो सदोद्युक्तो निजानन्दो रमापतिः ।
श्रुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः ॥

सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः ।
सत्येनिगूढः सत्यात्मा कालातीतो गुणाधिकः ॥

परं‍ज्योतिः परं‍धाम परमः पुरुषः परः ।
कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः ॥

कर्मकृत्कर्मकाण्डस्यसम्प्रदायप्रवर्तकः ।
सर्वान्तकः सर्वगश्च सर्वदः सर्वभक्षकः ॥

सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः ।
सर्वदेवप्रियः साक्षीत्येतन्नामाष्टकं शतम् ॥

सर्ववेदाधिकं पुण्यं वराहस्य महात्मनः ।
सततं प्रातरुत्थाय सम्यगाचम्य वारिणा ॥

जितासनो जितक्रोधः पश्चान्मन्त्रमुदीरयेत् ।
ब्राह्मणो ब्रह्मविद्यायां च क्षत्रियो राज्यमाप्नुयात् ॥

वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ।
सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ॥

इति श्रीवराहपुराणे धरणीवराहसंवादे श्रीभूवराहाष्टोत्तरस्तवः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री वराहाष्टोत्तरशतनाम स्तोत्रम् PDF

श्री वराहाष्टोत्तरशतनाम स्तोत्रम् PDF

Leave a Comment