श्री सुदर्शन चक्र स्तोत्रम् (गरुडपुराणे)
|| श्री सुदर्शन चक्र स्तोत्रम् (गरुडपुराणे) || हरिरुवाच । नमः सुदर्शनायैव सहस्रादित्यवर्चसे । ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ॥ १ ॥ सर्वदुष्टविनाशाय सर्वपातकमर्दिने । सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ॥ २ ॥ प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः । पालनार्थाय लोकानां दुष्टासुरविनाशिने ॥ ३ ॥ उग्राय चैव सौम्याय चण्डाय च नमो नमः । नमश्चक्षुःस्वरूपाय संसारभयभेदिने ॥ ४ ॥ मायापञ्जरभेत्रे च शिवाय…