Misc

श्री सुब्रह्मण्य मंगलाष्टक

Subramanya Mangalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

॥ श्रीसुब्रह्मण्यमङ्गळाष्टकं ॥

शिवयोसूनुजायास्तु श्रितमन्दार शाखिने ।
शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळं ॥

भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गळं ॥

शूरपद्मादि दैतेय तमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गळं ॥

वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥

कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥

मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गळं ॥

कनकांबरसंशोभि कटये कलिहारिणे ।
कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥

शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥

मंगळाष्टकमेतन्ये महासेनस्यमानवाः ।
पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥

॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥

Found a Mistake or Error? Report it Now

श्री सुब्रह्मण्य मंगलाष्टक PDF

Download श्री सुब्रह्मण्य मंगलाष्टक PDF

श्री सुब्रह्मण्य मंगलाष्टक PDF

Leave a Comment

Join WhatsApp Channel Download App