Download HinduNidhi App
Surya Dev

सूर्यार्यास्तोत्रम्

Suryarya Stotram Sanskrit

Surya DevStotram (स्तोत्र निधि)संस्कृत
Share This

|| सूर्यार्यास्तोत्रम् ||

श्री गणेशाय नमः ॥

शुकतुण्डच्छवि-सवितुश्चण्डरुचेः
पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे
कुण्डलमाखण्डलाशायाः ॥ १॥

यस्योदयास्तसमये
सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेञ्जलिं त्रिनेत्रः स
जयति धाम्नां निधिः सूर्यः ॥ २॥

उदयाचलतिलकाय प्रणतोऽस्मि
विवस्वते ग्रहेशाय ।
अम्बरचूडामणये
दिग्वनिताकर्णपूराय ॥ ३॥

जयति जनानन्दकरः
करनिकरनिरस्ततिमिरसङ्घातः ।
लोकालोकालोकः
कमलारुणमण्डलः सूर्यः ॥ ४॥

प्रतिबोधितकमलवनः
कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो
रविः सदा जयति ॥ ५॥

अपनयतु सकलकलिकृतमलपटलं
सप्रतप्तकनकाभः ।
अरविन्दवृन्दविघटन-
पटुतरकिरणोत्करः सविता ॥ ६॥

उदयाद्रिचारुचामर
हरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर
गगनाङ्गनदीपक नमस्तेऽस्तु ॥ ७॥

उदितवति त्वयि विकसति
मुकुलीयति समस्तमस्तमितबिम्बे ।
न ह्यन्यस्मिन्दिनकर सकलं
कमलायते भुवनम् ॥ ८॥

जयति रविरुदयसमये
बालातपः कनकसन्निभो यस्य ।
कुसुमाञ्जलिरिव जलधौ
तरन्ति रथसप्तयः सप्त ॥ ९॥

आर्याः साम्बपुरे सप्त
आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि
न स लक्ष्म्या वियुज्यते ॥ १०॥

आर्याः सप्त सदा यस्तु
सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च दीपं च
पद्मा सत्यं न मुञ्चति ॥ ११॥

निधिरेश दरिद्राणां
रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां
गाथेयं संसृता रवेः ॥ १२॥

इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download सूर्यार्यास्तोत्रम् PDF

सूर्यार्यास्तोत्रम् PDF

Leave a Comment