Download HinduNidhi App
Shri Kali Maa

श्री त्रैलोक्य मोहन काली कवचम्

Trilokya Mohan Kali Kavacham Sanskrit

Shri Kali MaaKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री त्रैलोक्य मोहन काली कवचम् ॥

॥ श्री देव्युवाच ॥

देवदेवमहादेव संसारप्रीतिकारकः ।
सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥

॥ श्री शिव उवाच ॥

श्रृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।
सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥

यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः ।
बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥

शचीस्वामीदेवनाथो यमोपिधर्मनायकः ।
त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥

दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।
जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥

अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः ।
वागीश्वरः सुराचार्यो ?? गुरुः कविः ॥

एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।
तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥

अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्मशानकाली देवता,
धर्मार्थकाममोक्षार्थे, जपे विनियोगः ।
ललाटं पातु चक्रीं मे हरेणाराधितं सदा ।
नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥

क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।
क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥

क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता ।
क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥

दन्तपङ्क्ति सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।
भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥

ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं
हूँ हूँह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥

कण्ठं पातु महाकाली ॐ क्रीं ह्रीं मे स्वाहामम
चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥

हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं
स्वाहासौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥

ॐ क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा ।
सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥

ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु ।
वायुनोपासिताकाली यशोबल सुखप्रदा ॥

क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम ।
सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥

क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु ।
सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥

लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ।
शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥

पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।
धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥

पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा ।
द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥

जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।
एकादशी महाविद्या मेघनादेन सेविता ॥

क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा
जङ्घेवतुद्वादशीच महाविद्या प्रह्लादेनचसेविता ॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः ।
पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥

क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा ।
च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥

क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं
मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥

क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।
मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥

क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु ।
ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥

द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।
महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥

सूर्यवंशेन सोमेन रामेणजग्निना ।
जयन्ते न सुमन्ते न बलिनानारदेन च ॥

बिभीषणेनबाणेन भृगुणाकश्यपेन च ।
कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥

मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया ।
ऋष्यश्रृङ्गेन कर्णेन भारद्वाजेन संयुता ॥

सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी ।
पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥

नीला घना बलाका च मात्रा मुद्रामितापि च ।
एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥

हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा ।
ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥

माहेश्वरी पातु याम्ये चामुण्डा नैऋते सदा ।
कौमारी वारुणे पातु वायव्ये अपराजिता ॥

वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका ।
अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥

जलेस्थले च पाताले शयने भोजनेगृहे ।
राजस्थाने कानने च विवादे मरणे रणे ॥

पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।
शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥

यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका ।
नक्षत्र तिथि वारेषु योगं करणयोरपि ॥

मासे पक्षे वत्सरे च दण्डेयामेनिमेषके ।
दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥

सर्वत्र कालिका पातु कालिका पातु सर्वदा ।
सकृद्यः श्रृणुयानित्यं कवचं शिव निर्मितम् ॥

सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् ।
त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥

यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः ।
सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥

कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।
कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥

कामदेव समोरूपे वायुतुल्यः पराक्रमे ।
महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥

बृहस्पतिसमोधीमां जरामृत्युविवर्जितः ।
सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥

अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः ।
यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥

न शोकोनभय क्लेशो न रोगोन पराजयः ।
धनहानिर्विषादोय परिवारोभवेन्नहि ॥

सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनं ।
ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥

तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः ।
ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥

सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।
तद्देहं न दहेदग्नि न तापयतिभास्करः ॥

न शोषयति वातोपि न क्लेदं कुरुतेपयः ।
पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥

जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः ।
बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥

राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥

काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका ।
कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥

तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।
स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥

इदं कवचमज्ञात्वा यो जपेत्कालिकामनुं ।
ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥

पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् ।
इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥

गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।
तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥

य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् ।
भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥

॥ इति श्री त्रैलोक्य मोहन काली कवचम् सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री त्रैलोक्य मोहन काली कवचम् PDF

श्री त्रैलोक्य मोहन काली कवचम् PDF

Leave a Comment