|| उमा अक्षरमाला स्तोत्र ||
अक्षरं वाक्पथातीतं ऋक्षराजनिभाननम्।
रक्षताद्वाम नः किञ्चिदुक्षवाहनमोहनम्।
आकाशकेशमहिषीं आकारविजितोर्वशीम्।
आशाहिनजनध्येयां आशापालार्चितां नुमः।
इन्द्रप्रभृतिगीर्वाणवन्दिताङ्घ्रिकुशेशया।
चन्द्रस्तनन्धयापीडजाया विजयतेतराम्।
ईश्वरीं सर्वभूतानां कः शिवां स्तोतुमीश्वरः।
चतुर्भिरसमेतो ना वदनैरुतबाहुभिः।
उमा नामादिमा भामा वामा श्यामा विमानमा।
विमानमान्यमाया मा भिमा रामानुमातु मा।
ऊरुं तं दक्षिणं मातुः स्मरामि निजमासनम्।
यस्मादहं परिभ्रष्टः कल्की भूभुवनं गतः।
ऋषीणां चक्षुषो ज्योतिः बाला शैलस्य चक्षुषः।
हरस्य चक्षुषः कान्ता मातोमा मम चक्षुषः।
ॠकारं वेष्टितं द्वाभ्यां नाभ्यामुभयतो दिशम्।
आकारो वा क्षमः पातुं स चन्द्रेण वतंसितः।
लृकारः शीतलापाङ्गि ककारेणेव सर्वदा।
श्लिष्ट एव त्वया गौरि मेरुधन्वा प्रयुज्यये।
लॄकारोऽम्ब त्वया बाल्ये कलभाषिणि भाषितः।
नचेदयमसन्वर्णो गृह्यते कथमागमे।
एणस्तनन्धयालोकं एकान्तालोचनामृतम्।
एकाम्रनायकदृशोर्भाग्यं विजयतेतराम्।
ऐश्वर्यं कः पुमानीष्टे गिरिजायाः प्रभाषितुम्।
चामरग्राहिणी यस्याः स्वयमम्भोजवासिनी।
ओङ्कार इव शर्वस्य ह्रीङ्कारस्तव वाचकः।
अनयोरम्बिके भेदं यो न वेद स वेद ना।
औदार्ये देवता धेनुः सौन्दर्ये मणिपुत्रिका ।
स्वयं शक्तिर्नगसुता त्रिलोकी राज्यमर्हति।
अंसयोर्विनतं सम्यगुन्नतं कुचकुम्भयोः।
अमृतं शङ्करदृशोः परं जयति दैवतम्।
अः कुण्ठित्तोऽभवद्येषु तेषु दर्शितविक्रमा।
यातुधानेषु भीमेषु पातु वो भीमभामिनी।
कमलासुतेन यत्रात् कृतानि शृङ्गारतन्त्रसूत्राणि।
स्तोकान्यपि बहुलार्थान्यगजाहसितानि पान्तु त्वाम्।
खं भवती भूर्भवती पवनो भवती हुताशनो भवती।
सलिलं च देवि भवती भवतीं हित्वा न किञ्चिदपि।
गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः।
अधरमणौ त्रिपुरजिते दधासि पीयूषमम्ब त्वम्।
घनमतिदायकवेणी वाणीपतिमुख्यदेवताविनुता।
पुररिपुपाणिगृहीती पूर्णं विदधातु मे कामम्।
ङत्वं वादस्य लिपौ मातः केनापि लिङ्गभेदेन।
त्वद्रूपता पुरारेस्तदभावे तु द्वयोरैक्यम्।
चञ्चलविशालनयना तुङ्गकुचा चञ्चरीकनीलकचा।
पञ्चमुखस्य पुरन्ध्री जगतोंऽहःसञ्चयं हरतु।
छत्रग्रहणनियोज्या दशशतनेत्रस्य भामिनी यस्याः।
तस्याश्चरणमुमाया भवातपे क्लिश्यतां छत्रम्।
जम्बुकनायकनयनज्योत्स्नेयं रङ्गशायिनो भगिनी।
अखिलानामण्डानामधिराज्ञी विजयते चण्डी।
झङ्कृतिं करोति चेन्नमत्तषट्पदावली
यन्मुखाम्बुजन्मना सुगन्धिना निमन्त्रिता।
कर्णकुन्तलभ्रमाद्भवेन नैव वार्यते
शैलशक्रपुत्रिका धुनोतु सा मम भ्रमम्।
ञमङणनाः सम्प्रोक्त्ता चपकटताख्येषु गौरि वर्गेषु।
उत्तमसंज्ञाः प्राज्ञैः नरवर्गे तु त्वदङ्घ्रिरताः।
टङ्कृतिमुखरितदिक्कं सज्यं बाणासनं करे दधती।
ध्येया माया शबरी शत्रुभयं तर्तुकामेन।
ठङ्कमपूर्वं लक्ष्म्या प्रहसन्प्रवदस्यलं तु वदनस्य।
परितो मुनिभिर्गीतः परिग्रहो धूर्जटेर्जयति।
डमरुधरो भगवानपि गायति यस्याः शुभं गुणव्रातम्।
तस्याः शिखरिसुताया नाकृतपुण्यो भवेद्वन्दी।
ढक्कादिवाद्यहस्तप्रमथसमाराधितश्रवणयुग्मा।
शुभ्रकिरणार्धमौलेः शुद्धान्तविलासिनी जयती।
णटधात्वर्थे चतुरो नाथो यस्यास्तरङ्गिणीधारी।
अगपुरुहूतसुता सा करोतु मे मानसे नटनम्।
तनुकान्तिविजितकनका तरणिः संसारधोरजलराशेः।
तरुणारुणाभचरणा तनोतु मे गिरिसुता क्षेमम्।
थस्येव यस्य नास्ति प्रारम्भो येन न द्वितीयत्वम्।
तस्य गृणन्त्यक्षरता यस्मिन्नपि तन्महो जयति।
दरहसितद्विगुणीकृतमुखकान्तिर्जयति पुरजितः कान्ता।
नयनोन्मेषविलासो यस्याः सकलानि भुवनानि।
धरणीधरस्य दुहिता धरणीधरवासिनो वधूर्दयिता।
धरणीविटस्य भगिनी धरणीमेतामुमा पातु।
नगजे पायं पायं लावण्यसुधां त्वदीयगात्रस्य।
नयनाञ्जलिना शूली बभूव मृत्युञ्जयो मन्ये।
पतिरुग्रदृष्टिरुग्रो युवराजोऽयं सदा मदोपेतः।
तव राज्ञि न करुणा चेद् भुवनस्य कथं शुभं भवतु।
फलितं ममाम्ब सुकृतं कालेनैतावता न सन्देहः।
यद् भवदीयं स्तोत्रं पवित्रमीशानि रचयामि।
बलिभिर्निपीड्यमानानबलान् पातुं गृहीतजननाय।
बलमम्ब देहि मह्यं बलिमेतत्कल्पयामि मनः।
भवदीयस्य महेश्वरि कटाक्षनाम्नो नवस्य मेधस्य।
प्रावृषमहमाशङ्के करुणां कल्याणतोयमुचः।
मतिरहितः स्तुवसि त्वं यं कञ्चन धनपिशाचिकाविष्टम्।
इष्टं च नैव लभसे पश्य जगन्मातरं स्तुत्वा।
यमिनां स्मर्तुं योग्यं निगमागमवाक्यसञ्चयैर्मृग्यम्।
मूर्तं लोचनभाग्यं पुरामरेर्जयति नीपवने।
रथचरणपाणिभगिनी दानवदमनी नमद्विपच्छमनी।
भुवनत्रयस्य जननी विन्ध्ये धरणीधरे जयति।
ललनाजनप्रकाण्डं कलनादपरास्तबालकलकण्ठम्।
पुरवैरिणः कलत्रं मुरवैरि समर्चितं भज रे।
वन्द्यमुमापदकमलं निन्द्यमिदं सङ्गकारणसदनम्।
वयसि सकलेऽप्यतीते नयसि मुधा मुग्ध किं कालम्।
शम्बरशात्रवशात्रवकलत्रपदमित्रमहमहो धन्यः।
भूमण्डले विशाले सदृशः पुरुषो मया कोऽन्यः।
षड्वदनस्य सवित्री षण्णां हन्त्री मनः सपत्रानाम्।
षड्भिर्गम्यं मार्गैर्भर्गस्य पुरन्ध्रिकास्थानम्।
सर्वत्र सङ्गमुक्तो गर्ववियुक्तः स्वतन्त्रसञ्चारः।
निर्वर्णयन् कदा वा शर्ववधूधाम विहरामि।
हरिमुखवन्दितचरणा हरिणाङ्कमदापहास्यरजीवा।
हरिणस्तनन्धयाक्षि हरिनायकवाहना जयति।
क्षत्रियान्तकारिणः प्रसूत्वमेव केवलं
नाप काऽपि यत्कला ममापि मातृतामगात्।
दुष्टलोकमारिणी नृसिंहशक्तिरूपिणी
धूर्जटेर्वधूटिका धुनोतु सा मदापदम्।
Found a Mistake or Error? Report it Now