उमा महेश्वर स्तोत्रम् PDF

Download PDF of Uma Maheswara Stotram Sanskrit

Parvati JiStotram (स्तोत्र निधि)संस्कृत

॥ उमा महेश्वर स्तोत्रम् ॥ नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेंद्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिंचिविष्ण्विंद्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जंभारिमुख्यैरभिवंदिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां परमौषधाभ्यां पंचाक्षरीपंजररंजिताभ्याम् । प्रपंचसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्याम्...

READ WITHOUT DOWNLOAD
उमा महेश्वर स्तोत्रम्
Share This
Download this PDF