|| श्रीविजयरामाचार्याष्टकम् ||
श्रौतवैष्णवधर्मस्य त्रातारं रामभक्तिदम् ।
श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
श्रीमदानन्दभाष्यस्य प्रवक्तारं महामुनिम् ।
श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
विज्ञापक रहस्यानां रामोपासनतत्परम् ।
श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
भवाब्धितारकं रामतारकं सम्प्रदाय हि ।
श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वर्जितं दुर्गणैर्निर्त्य सद्गुणानां महानिधिम् ।
श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मायाजीवेशतत्त्वानां बोधकं बोधसागरम् ।
श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
विधाय पञ्चसंस्कारान् वैष्णवत्व विधायकम् ।
श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रार्थकोविदं सम्यङ् मन्त्राणामर्थबोधकम् ।
श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीविजयरामाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now