श्रीयादवाष्टकम् PDF संस्कृत
Download PDF of Yadav Ashtakam
Shri Krishna ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीयादवाष्टकम् संस्कृत Lyrics
|| श्रीयादवाष्टकम् ||
माधवानन्त केशवाच्युत वासुदेव जगत्पते
मीन कच्छप नारसिंह श्रीवीरराघव पाहि माम् ।
निर्जरार्चित मौनिसन्नुत नीरजाक्ष दयानिधे
देवनायक देहि मे तव पादभक्तिमचञ्चलाम् ॥ १॥
श्रीकरं करुणाकरं मुनिमानसाम्बुजवासिनं
पाकशासनसेवितं फणिराजतल्पसुशायिनम् ।
शोकमोहविनाशकं सुगुणाकरं शुभदायकं
लोकजीवनहेतुकं प्रणमामि यादवकुञ्जरम् ॥ २॥
कृष्ण श्रीधर वासवानुज पद्मनाभ नमोऽस्तु ते
किङ्किणीघननाददिव्यसुपादपद्म नमोऽस्तु ते ।
वृष्णिवंशप्रदीप नायक वेदवेद्य नमोऽस्तु ते
विप्रसंस्तुत मेघवर्ण सुपर्णवाह नमोऽस्तु ते ॥ ३॥
देवकीतनुसम्भवं त्रिगुणात्मकं जगदीश्वरं
दिव्यकौस्तुभशोभितं शुभशङ्खचक्रगदाधरम् ।
भावुकं पशुपालनं परमात्मकं भयनाशकं
दिव्यभागवतस्तुतं प्रणमामि यादवकुञ्जरम् ॥ ४॥
नन्दगोपकुमारकं नवरत्नकुण्डलभूषितं
नन्दिताश्रितपोषकं रविकोटिकान्तिसमप्रभम् ।
कुन्दकैतकल्लिकादिसुगन्धपुष्पसमर्चितं
इन्दुवंशविवर्धनं प्रणमामि यादवकुञ्जरम् ॥ ५॥
क्रूरकंसविमर्दनं मुचुकुन्दमोक्षणदायकं
चारुकेलिरसप्रियं शतकोटिमन्मथविग्रहम् ।
नीरजासनपूजितं नवनीतदिग्धकलेवरं
क्षीरसिन्धुनिवासिनं प्रणमामि यादवकुञ्जरम् ॥ ६॥
पूतनासुविभञ्जनं परिपूर्णचन्द्रनिभाननं
चूतपल्लवकोमलाधरमारुताञ्चितवांशिकम् ।
गीतनाट्यरसप्रियं सुरगीयमानयशोधरं
पीतवाससमव्ययं प्रणमामि यादवकुञ्जरम् ॥ ७॥
कोपमूर्छितकौरवादिविमर्दनं गुणसागरं
गोपिकाकुचकलचुकाहरणादरं कुलदैवतम् ।
चापवेदसुपारगं समशास्त्रधर्मविशारदं
क्लेशपापविमोचनं प्रणमामि यादवकुञ्जरम् ॥ ८॥
चन्द्रभानुविलोचनं मणिहारभूषणधारिणं
सुन्दरं नवरत्ननूपुरशोभिताङ्घ्रिसरोरुहम् ।
मन्दहासविराजितं वरबर्हि पिञ्छवतंसिनं
नन्दगोकुलवर्धनं प्रणमामि यादवकुञ्जरम् ॥ ९॥
मेरुशैलसमानधैर्यममेयरूपमजार्चितं
चारुमन्नवनीतचोरमखण्डरूपमनामयम् ।
पारिजातहरं परं बलभद्ररामसहोदरं
क्षुद्रकालियभञ्जनं प्रणमामि यादवकुञ्जरम् ॥ १०॥
शिष्टपालनतत्परं शिवदायकं जगदात्मकं
इष्टकामफलप्रदं भक्त (नत) वेङ्कटाचलवन्दितम् ।
दुष्टकर्मविनाशकं सर्वदोषरोगनिवारणं
अष्टभूतिप्रदायकं प्रणमामि यादवकुञ्जरम् ॥ ११॥
कृष्ण कृष्ण नमस्तेऽस्तु त्वयि भक्तिमचञ्चलाम् ।
इष्टकामार्थसिद्धिं च देहि मे मधुसूदन ॥ १२॥
यादवाष्टकमिदं पुण्यं यः पठेत् सततं नरः ।
सर्वसिद्धिं च सम्प्राप्य श्रीकृष्णपदमाप्नुयात् ॥ १३॥
इति श्रीयादवाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीयादवाष्टकम्
READ
श्रीयादवाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
