|| परशुरामकृता गजाननस्तुतिः ||
परशुराम उवाच ।
सहस्रादित्यसङ्काश ! नमस्ते जगदीश्वर ! ।
नमस्ते सर्वविद्येश ! सर्वसिद्धिप्रदायक ! ॥ ३१॥
विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ! ।
सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ! ॥ ३२॥
भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे ।
नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥
निवारय महाविघ्नं तपोनाशकरं मम ।
क उवाच ।
इति स्तुतिं समाकर्ण्य सौम्यतेजा गजाननः ॥ ३४॥
उवाच रामं सम्भ्रान्तं स्वस्यैव तिग्मतेजसा ।
गणेश उवाच ।
यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम् ॥ ३५॥
वरं दातुं समायातः सोऽहं राम ! तवाधुना ।
वरं वृणीष्व मत्तस्त्वं यद् यद् वाञ्छसि चेतसा ॥ ३६॥
ब्रह्माण्डानामनेकानां सृष्टा पाताऽपहारकः ।
नैव जानन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च ॥ ३७॥
राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनंगतः ।
परशुराम उवाच ।
योऽप्रमेयोऽखिलाधारः सृष्टिसंहारकारकः ॥ ३८॥
यो न वेदैर्न तपसा न यज्ञैर्वैतसञ्चयैः ।
न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः ॥ ३९॥
सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ! ।
किमन्यद् वरये देव ! भक्तिं देहि निजां दृढाम् ॥ ४०॥
गणेश उवाच ।
भविता मम भक्तिस्ते दृढा राम ! द्विजोत्तम् ! ।
प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविव्हला ॥ ४१॥
परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् ।
नाम ते परशुरामेति त्रैलोक्ये ख्यातिमेष्यति ॥ ४२॥
इति परशुरामकृता गजाननस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

