Shri Ganesh

परशुरामकृता गजाननस्तुतिः

Gajananastutih Parashuramakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

 || परशुरामकृता गजाननस्तुतिः ||

परशुराम उवाच ।
सहस्रादित्यसङ्काश ! नमस्ते जगदीश्वर ! ।
नमस्ते सर्वविद्येश ! सर्वसिद्धिप्रदायक ! ॥ ३१॥

विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ! ।
सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ! ॥ ३२॥

भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे ।
नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥

निवारय महाविघ्नं तपोनाशकरं मम ।
क उवाच ।
इति स्तुतिं समाकर्ण्य सौम्यतेजा गजाननः ॥ ३४॥

उवाच रामं सम्भ्रान्तं स्वस्यैव तिग्मतेजसा ।
गणेश उवाच ।
यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम् ॥ ३५॥

वरं दातुं समायातः सोऽहं राम ! तवाधुना ।
वरं वृणीष्व मत्तस्त्वं यद् यद् वाञ्छसि चेतसा ॥ ३६॥

ब्रह्माण्डानामनेकानां सृष्टा पाताऽपहारकः ।
नैव जानन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च ॥ ३७॥

राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनंगतः ।
परशुराम उवाच ।
योऽप्रमेयोऽखिलाधारः सृष्टिसंहारकारकः ॥ ३८॥

यो न वेदैर्न तपसा न यज्ञैर्वैतसञ्चयैः ।
न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः ॥ ३९॥

सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ! ।
किमन्यद् वरये देव ! भक्तिं देहि निजां दृढाम् ॥ ४०॥

गणेश उवाच ।
भविता मम भक्तिस्ते दृढा राम ! द्विजोत्तम् ! ।
प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविव्हला ॥ ४१॥

परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् ।
नाम ते परशुरामेति त्रैलोक्ये ख्यातिमेष्यति ॥ ४२॥

इति परशुरामकृता गजाननस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download परशुरामकृता गजाननस्तुतिः PDF

परशुरामकृता गजाननस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App