|| कार्तवीर्यकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
कार्तवीर्य उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥
निर्गुणाय परेशाय परात्परतराय वै ।
अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥
सर्वपूज्याय हेरम्ब दीनपालाय ते नमः ।
ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥
निराकाराय साकाररूपाय परमात्मने ।
योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ ३१॥
सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने ।
आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ ३२॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ ३३॥
नानामायाधरायैव नानामायाविवर्जित ।
मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ ३४॥
स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ ३५॥
किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे ।
शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ ३६॥
जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ ३७॥
(फलश्रुतिः)
गणनाथ उवाच ।
त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ ३८॥
कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् ।
तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ ३९॥
इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ ४०॥
इति कार्तवीर्यकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

