Shri Ganesh

मयूरेशकृता श्रीगणनाथस्तुतिः

Gananathastutih Mayureshakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| मयूरेशकृता श्रीगणनाथस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

मयूरेश उवाच ।
नमस्ते गणनाथाय सर्वविघ्नविदारिणे ।
भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥

ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥

वक्रतुण्डाय वक्राणां नाशकार परात्मने ।
लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥

चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे ।
हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥

योगेशाय सदा शान्तिदात्रे शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ ५२॥

ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ ५३॥

अनादये च सर्वेषामादिरूपाय विघ्नप ।
विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ ५४॥

स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये ।
सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ ५५॥

महोदराय भीमाय पापिनां दण्डधारिणे ।
स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ ५६॥

मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥ ५७॥

किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ ५८॥

रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् ।
यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ ५९॥

इति मयूरेशकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download मयूरेशकृता श्रीगणनाथस्तुतिः PDF

मयूरेशकृता श्रीगणनाथस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App