Shri Ganesh

मयूरेशकृता श्रीगणनाथस्तुतिः

Gananathastutih Mayureshakrrita Sanskrit

Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| मयूरेशकृता श्रीगणनाथस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

मयूरेश उवाच ।
नमस्ते गणनाथाय सर्वविघ्नविदारिणे ।
भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥

ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥

वक्रतुण्डाय वक्राणां नाशकार परात्मने ।
लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥

चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे ।
हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥

योगेशाय सदा शान्तिदात्रे शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ ५२॥

ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ ५३॥

अनादये च सर्वेषामादिरूपाय विघ्नप ।
विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ ५४॥

स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये ।
सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ ५५॥

महोदराय भीमाय पापिनां दण्डधारिणे ।
स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ ५६॥

मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥ ५७॥

किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ ५८॥

रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् ।
यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ ५९॥

इति मयूरेशकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download मयूरेशकृता श्रीगणनाथस्तुतिः PDF

मयूरेशकृता श्रीगणनाथस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App