Shri Ganesh

श्रीगणेशकीलकस्तोत्रम्

Ganeshakilakastotram Sanskrit Lyrics

Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशकीलकस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।
गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् ।
मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १॥

मुद्गल उवाच ।
कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २॥

तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः ।
भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३॥

समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं श‍ृणु मानद ॥ ४॥

अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः ।
श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् ।
विद्याविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः ॥

छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।
एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५॥

ततो ध्यायेद्गणेशानं ज्योतिरूपधरं परम् ।
मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६॥

शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७॥

एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् ।
पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८॥

एकविंशतिवारं तु जपं कुर्यात्प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९॥

रूपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १०॥

यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान्निहत्य स्म करोषि वीर्यसंयुतान् ॥ ११॥

तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२॥

शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३॥

चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४॥

तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५॥

ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६॥

इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७॥

तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते ॥ १८॥

सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९॥

उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २०॥

गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१॥

गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२॥

यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३॥

एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा ।
स सर्वफलहीनश्च जायते नात्र संशयः ॥ २४॥

सर्वसिद्धिकरं प्रोक्तं कीलकं परमाद्भुतम् ।
पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५॥

विष्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६॥

ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः ।
गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७॥

सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८॥

दक्ष उवाच ।
ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९॥

पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३०॥

मुद्गलवाच ।
विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१॥

स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२॥

एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः श‍ृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३॥

इति श्रीमुद्गलमहापुराणे पङ्चमे खण्डे लम्बोदरचरिते
श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये
श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशकीलकस्तोत्रम् PDF

श्रीगणेशकीलकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App