Shri Ganesh

श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम्

Ganeshadvadashanamastotram2 Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम् ||

ब्रह्मोवाच ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥

कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥ ४०॥

स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च ॥ ४१॥

शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ४२॥

यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् ।
सिद्ध्यन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥ ४३॥

तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अत एव मुने ! सर्वाः शाक्ताः शैवाश्च वैष्णवाः ॥ ४४॥ (सौराः)

उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥ ४५॥

न सिद्ध्यन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत् ॥ ४६॥

दुष्टानां नास्तिकानां चकार्यं यद् यद्धि सिद्ध्यति ।
तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते ॥ ४७॥

इति श्रीगणेश द्वादशनामानि स्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम् PDF

श्रीगणेशद्वादशनामस्तोत्रम् नामावलीसहितम् PDF

Leave a Comment

Join WhatsApp Channel Download App