Shri Ganesh

काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम्

Ganeshapanchakastotramkashirajakrritam Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम् ||

नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे ।
नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे ॥ ४६॥

अकालप्रलयाद् देव ! वीतिहोत्राज्जगत्पते ।
लीलावतार ! दैत्योभ्यो रक्षिता लीलया त्वया ॥ ४७॥

कस्य सामर्थ्यमेतावद् वह्निं पातुं महाबलम् ।
भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥ ४८॥

मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् ।
त्वमेव जननी देव ! त्वमेव जनकोऽविता ॥ ४९॥

महाभाग्यं जनानां मे येन ते सन्निधिः कृतः ।

इति काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम् PDF

काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App