Shri Ganesh

काशिकृता श्रीगणेशस्तुतिः

Ganeshastuti Kashikrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काशिकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

काश्युवाच ।
नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे ।
नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ ४७॥

गजवक्त्रधरायैव शूर्पकर्णाय ते नमः ।
सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ ४८॥

निराकाराय नित्याय निर्गुणाय गुणात्मने ।
वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ ४९॥

ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ ५०॥

अनाथाय च नाथाय सर्वेषां पालकाय च ।
भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ ५१॥

विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च ।
योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ ५२॥

मनोवाणीविहीनाय शान्तिरूपाय ते नमः ।
शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ ५३॥

किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः ।
शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ ५४॥

रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् ।
अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ ५५॥

शिवहीना कृता देव दैवं तु परमाद्भुतम् ।
अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ ५६॥

इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने ।
तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ ५७॥

(फलश्रुतिः)
गणेश उवाच ।
मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते ।
अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ ५८॥

त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् ।
यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ ५९॥

यं यमिच्छति भावेन तं तं दास्यामि सर्वगः ।
ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ ६०॥

इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत ।
तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ ६१॥

इति काशिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download काशिकृता श्रीगणेशस्तुतिः PDF

काशिकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App