|| देवपत्नीकृता श्रीगणेशस्तुतिः ||
देवपत्न्याः ऊचुः
नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।
नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २॥
नमः सर्वविनाशाय नमस्तेऽनन्तशक्तये ।
नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३॥
परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।
चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४॥
मायाश्रयायामेयाय गुणातीताय ते नमः ।
सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५॥
शरणागतपालाय दैत्यदानवभेदिने ।
नमो नानावताराय विश्वरक्षणतत्पर ॥ ६॥
अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।
अनेकवरदात्रे ते भक्तानां हितकारक ॥ ७॥
क उवाच ।
एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् ।
देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥ ८॥
नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।
फलश्रुतिः –
गणेश उवाच ।
ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः ॥ ९॥
स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः ।
सावित्र्या वचनाज्जाता जलभूताः सुराः शुभाः ॥ १०॥
तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः ।
निजं स्वरूपं यास्यन्ति स्थित्वांऽशेन तथाविधान् ॥ ११॥
स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम ।
शमीपत्रैः पूजयन्तू यूयं देवास्तु मामिह ॥ १२॥
येनर्पितं शमीपत्रं भुवनं तेन चार्पितम् ।
सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥ १३॥
इति देवपत्नीकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

