|| ब्रह्माद्याकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ब्रह्माद्या ऊचुः ।
नमस्ते गणनाथाय विघ्नानां पतये नमः ।
अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४॥
भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे ।
अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५॥
गजाननाय देवाय शूर्पकर्णाय ते नमः ।
महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६॥
सर्वादये महादात्रे सर्वपूज्याय वै नमः ।
सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः ॥ २७॥
स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च ।
योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥ २८॥
सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः ।
गणेशाय गुणानां वै चालकाय नमो नमः ॥ २९॥
आत्मनेऽनात्मने चैव कारणानां प्रकाशिने ।
ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥ ३०॥
निवारय महाविघ्नं सहसा समुपस्थितम् ।
ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः ॥ ३१॥
त्वदीयपादपद्मस्य वयं दासा गजानन ।
मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥ ३२॥
अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् ।
क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥ ३३॥
एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् ।
गणेशाकाररूपेण बभूव नृपसत्तम ॥ ३४॥
ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् ।
मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥ ३५॥
सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् ।
योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका ॥ ३६॥
सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः ।
एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते ॥ ३७॥
उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः ।
विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः ॥ ३८॥
इति ब्रह्माद्याकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

