Misc

रेणुका गीतम्

Renuka Gitam Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| रेणुका गीतम् ||

श्री गणेशाय नमः ।

सुर शिरश्चरच्चरण रेणुका ।
जगदधीश्वरी जयति रेणुका ॥

देवता शिरो देश लालितम् ।
रेणुका पादं दिशतु मे मुदम् ॥

कुण्डलीपुरी मण्डनं महः ।
किमपि भासतां मम सदा हृदि ॥

मस्तकैतवं वस्तु शाश्वतम् ।
अस्ति मे सदा शस्तदं हृदि ॥

आदिनारि ते पादपङ्कजम् ।
स्फुरतु मे मनः सरसिजे सदा ॥

केवलं पदो सेवकोऽस्मि ते ।
वेद्मि नेतरद्वेद सन्नुते ॥

हृदय तेणुनः समुचितोऽणुना ।
परिचयोऽम्बिका पादरेणुना ॥

पाहि मुञ्च वा पादपङ्कजम् ।
त्रिदश सन्नुते न त्यजामि ते ॥

चरणमम्ब ते यो निषेवते ।
पुनरयं कुचौ धयति किं कृती ! ॥

अहरहोऽम्ब ते रहसि चिन्तया ।
धन्यतां गतो नान्यदर्थये ॥

स्मरजितो यथा शिरसि जाह्नवी ।
जननि रेणुके मनसि ते कृपा ॥

अम्ब पाहि मां दम्ब तापसि ।
पादपङ्कजयोः आदिकिङ्करम् ॥

पुत्रमात्मनः पुण्यकीर्तने ।
बहुकृपे कुतो मामुपेक्षसे ॥

अम्ब संस्तुते जम्भ वैरिणा ।
पाहि मामिमं मग्नमापदि ।
तत्त्ववादिनाः सत्त्वशालिनी ॥

त्वामजे विन्दुः सत्स्वरूपिणीम् ।
त्वां प्रचक्षते सदयवीक्षिते ॥

वेदि वेदिनो मोदरूपिणीम् ।
संविदं विदुस्त्वामिदं प्रभुम् ॥

परमयोगिनः परमदेवते ।
जननि कुण्डलीपुर निवासिनि ।
परशुरामवत्पश्य मामिमम् ॥

तनयरोदनं श्रवणशालिनि ।
शृणुसुरार्चिते यदि दया हृदि ॥

याचकः सुतो भजनमीप्सितम् ।
तदपिदुर्लभं किमिदमम्बिके ॥

मास्तु वेतनं छिन्नमस्तके ।
भजनमेव ते याच्यते मया ॥

तरलतारया ज्वलनदीर्घया ।
सानुकम्पया शीतपातया ॥

केवलं दृशां पश्य रेणुके ।
तेन मे शुभं न च तवाशुभम् ॥

किङ्करीभवत्सुरविलासिनी ।
जयति कुण्डली नगरवासिनी ॥

मधुरमम्ब ते चरणपङ्कजम् ।
तत्र यद्रतैस्त्यज्यतेऽखिलम् ॥

चरणमम्ब ते चरतु मे हृदि ।
इयमनामये प्रार्थना मम ॥

भुजगकङ्कणप्रभूति संस्तुते ।
भुजभुवामरेर्जननि पाहिमाम् ॥

कुण्डलीपुरी मण्डनायिता ।
गणपतिस्तुता जयति रेणुका ॥

इति श्री वसिष्ठ गणपतिमुनि प्रोक्तं रेणुका गीतं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download रेणुका गीतम् PDF

रेणुका गीतम् PDF

Leave a Comment

Join WhatsApp Channel Download App