Shani Dev

शनिमङ्गलस्तोत्रम्

Shanimangalastotram Sanskrit Lyrics

Shani Dev ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शनिमङ्गलस्तोत्रम् ||

मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।
स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥

स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः ।
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥

प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥

ॐ अनया पूजया शनैश्चरः प्रीयताम् ।
ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥

इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शनिमङ्गलस्तोत्रम् PDF

शनिमङ्गलस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App