Misc

श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम्

Sri Rama Krishna Ashtottara Shatanama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् ||

श्रीरामचन्द्रश्रीकृष्ण सूर्यचन्द्रकुलोद्भवौ ।
कौसल्यादेवकीपुत्रौ रामकृष्णौ गतिर्मम ॥ १ ॥

दिव्यरूपौ दशरथवसुदेवात्मसम्भवौ ।
जानकीरुक्मिणीकान्तौ रामकृष्णौ गतिर्मम ॥ २ ॥

आयोध्याद्वारकाधीशौ श्रीमद्राघवयादवौ ।
श्रीकाकुत्स्थेन्द्रराजेन्द्रौ रामकृष्णौ गतिर्मम ॥ ३ ॥

शान्तासुभद्रासोदर्यौ सौमित्रीगदपूर्वजौ ।
त्रेताद्वापरसम्भूतौ रामकृष्णौ गतिर्मम ॥ ४ ॥

विलम्बिविश्वावसुजौ सौम्यदक्षायणोद्भवौ ।
वसन्तवर्षऋतुजौ रामकृष्णौ गतिर्मम ॥ ५ ॥

चैत्रश्रावणसम्भूतौ मेषसिंहाख्यमासजौ ।
सितासितदलोद्भूतौ रामकृष्णौ गतिर्मम ॥ ६ ॥

नवमीस्वष्टमीजातौ सौम्यवासरसम्भवौ ।
अदितिब्रह्मताराजौ रामकृष्णौ गतिर्मम ॥ ७ ॥

मध्याह्नार्धनिशोत्पन्नौ कुलीरवृषलग्नजौ ।
द्वात्रिंशल्लक्षणोपेतौ रामकृष्णौ गतिर्मम ॥ ८ ॥

दूर्वादलघनश्यामौ द्विचतुर्बाहुसम्भवौ ।
कोदण्डचक्रहस्ताब्जौ रामकृष्णौ गतिर्मम ॥ ९ ॥

वशिष्ठगार्ग्यसचिवौ सिद्धार्थोद्धवमन्त्रिणौ ।
गाधेयसान्दीपिशिष्यौ रामकृष्णौ गतिर्मम ॥ १० ॥

लवप्रद्युम्नजनकौ कुशसाम्बसितान्वितौ ।
हनुमद्गरुडारूढौ रामकृष्णौ गतिर्मम ॥ ११ ॥

ताटकापूतनाराति खरकंसशिरोहरौ ।
काककालीयदर्पघ्नौ रामकृष्णौ गतिर्मम ॥ १२ ॥

कबन्धनरकाराती विराधमुरमर्दनौ ।
दशास्यशिशुपालघ्नौ रामकृष्णौ गतिर्मम ॥ १३ ॥

अहल्यानृपशापघ्नौ शिवकंसधनुर्भिदौ ।
लीलामानुषरूपाढ्यौ रामकृष्णौ गतिर्मम ॥ १४ ॥

दण्डकारण्यसञ्चारी बृन्दावनविहारिणौ ।
एकाऽनेककलत्राढ्यौ रामकृष्णौ गतिर्मम ॥ १५ ॥

शबरी द्रौपदीपूज्यौ जटायुर्भीष्ममुक्तिदौ ।
मुनिपाण्डवसंरक्षौ रामकृष्णौ गतिर्मम ॥ १६ ॥

जामदग्न्याहङ्कृतिघ्न बाणासुरमदापहौ ।
जयान्वितौ जगत्पूज्यौ रामकृष्णौ गतिर्मम ॥ १७ ॥

पितृवाक्यैकनिरतौ पितृबन्धविमोचकौ ।
चीरपीताम्बरधरौ रामकृष्णौ गतिर्मम ॥ १८ ॥

सुमन्त्रदारुकाभिख्यौ सारथीजगदीश्वरौ ।
गुहपार्थप्रियसखौ रामकृष्णौ गतिर्मम ॥ १९ ॥

परन्तपौ शूर्पणखारुक्मिवैरूप्यकारिणौ ।
जम्बूकशङ्खचूडघ्नौ रामकृष्णौ गतिर्मम ॥ २० ॥

समुद्रसेतुनिर्मातृ समुद्रकृतपत्तनौ ।
महासत्वमहामायौ रामकृष्णौ गतिर्मम ॥ २१ ॥

वीरौ विश्वामित्रधर्मयज्ञरक्षणतत्परौ ।
दृढव्रतौ सुचरितौ रामकृष्णौ गतिर्मम ॥ २२ ॥

त्रिजटाख्य कुचेलाख्य द्विजदारिद्र्यहारिणौ ।
योगिध्येयपदाम्भोजौ रामकृष्णौ गतिर्मम ॥ २३ ॥

महात्मानौ सप्ततालयमलार्जुनभञ्जनौ ।
मारुताक्रूरवरदौ रामकृष्णौ गतिर्मम ॥ २४ ॥

शिवोपदिष्टगीतार्थ पार्थगीतोपदेशकौ ।
वार्धीश शक्रमानघ्नौ रामकृष्णौ गतिर्मम ॥ २५ ॥

देवदेवौ कुम्भकर्ण दन्तवक्त्रनिषूदनौ ।
वालिपौण्ड्रकहन्तारौ रामकृष्णौ गतिर्मम ॥ २६ ॥

दूषणत्रिशिरोहन्तृ साल्वाघासुरसूदनौ ।
मारीच शकटध्वंसौ रामकृष्णौ गतिर्मम ॥ २७ ॥

सुग्रीवेष्ट जरासन्ध तनयेप्सितराज्यदौ ।
सत्यवाक् सत्यसङ्कल्पौ रामकृष्णौ गतिर्मम ॥ २८ ॥

विभीषणाभयश्रीद भगदत्ताऽभयप्रदौ ।
जटाजूटकिरीटाद्यौ रामकृष्णौ गतिर्मम ॥ २९ ॥

चित्रकूटाचलावासि रैवताचललोलुपौ ।
सर्वभूतहृदावासौ रामकृष्णौ गतिर्मम ॥ ३० ॥

शरभङ्गोत्तमपद मुचुकुन्दवरप्रदौ ।
सच्चिदानन्दरूपाढ्यौ रामकृष्णौ गतिर्मम ॥ ३१ ॥

ऋक्षवानरसेनाढ्य वृष्टियादवसैनिकौ ।
परात्परौ जितामित्रौ रामकृष्णौ गतिर्मम ॥ ३२ ॥

ऋषिसङ्घकृतातिथ्य मुनिपत्न्यर्पितोदनौ ।
निरमयौ निरातङ्कौ रामकृष्णौ गतिर्मम ॥ ३३ ॥

धराधरविनिर्भेत्तृ गोवर्धनधरोद्धरौ ।
सुबाहु शतधन्वघ्नौ रामकृष्णौ गतिर्मम ॥ ३४ ॥

दशास्यान्वयसंहर्तृ दुर्योधनकुलान्तकौ ।
सर्वभूतहितोद्युक्तौ रामकृष्णौ गतिर्मम ॥ ३५ ॥

मृतशाखामृगोज्जीवि मृतगोगोपजीवकौ ।
ब्रह्मेन्द्रादिस्तुतिप्रीतौ रामकृष्णौ गतिर्मम ॥ ३६ ॥

शिवलिङ्गप्रतिष्ठातृ कृतकैलासयात्रकौ ।
निरञ्जनौ निष्कलङ्कौ रामकृष्णौ गतिर्मम ॥ ३७ ॥

मृतद्विजसुतोज्जीवि विनष्ट गुरुपुत्रदौ ।
निर्ममौ निरहङ्कारौ रामकृष्णौ गतिर्मम ॥ ३८ ॥

सरयू यमुनातीर विहारासक्तमानसौ ।
वाल्मीकिव्याससंस्तुत्यौ रामकृष्णौ गतिर्मम ॥ ३९ ॥

भूमीशार्चितपादाब्ज भूभारपरिहारकौ ।
धर्मसंस्थापनोद्युक्तौ रामकृष्णौ गतिर्मम ॥ ४० ॥

राजराजप्रीतिकर राजेन्द्रान्वयपालकौ ।
सर्वाभीष्टप्रदातारौ रामकृष्णौ गतिर्मम ॥ ४१ ॥

इति श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् PDF

Download श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् PDF

श्री रामकृष्ण अष्टोत्तरशतनाम स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App