Download HinduNidhi App
Misc

श्री मातङ्गी स्तोत्रम्

Sri Matangi Stotram 3 Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री मातङ्गी स्तोत्रम् ||

नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् ।
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥

रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुञ्जाहारस्तनाढ्यान्तां परं ज्योति स्वरूपिणीम् ॥ २ ॥

मारणं मोहनं वश्यं स्तम्भनाकर्षदायिनी ।
मुण्डकर्त्रिं शरावामां परं ज्योति स्वरूपिणीम् ॥ ३ ॥

स्वयम्भुकुसुमप्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परं ज्योति स्वरूपिणीम् ॥ ४ ॥

रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परं ज्योति स्वरूपिणीम् ॥ ५ ॥

शिव विष्णु विरञ्चिनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परं ज्योति स्वरूपिणीम् ॥ ६ ॥

रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानालङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७ ॥

इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८ ॥

पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९ ॥

इति एकजटा कल्पलतिका शिवदीक्षायान्तर्गतं श्री मातङ्गी स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मातङ्गी स्तोत्रम् PDF

श्री मातङ्गी स्तोत्रम् PDF

Leave a Comment