|| श्री दक्षिणकाली कवचम् १ ||
भैरव उवाच ।
कालिका या महाविद्या कथिता भुवि दुर्लभा ।
तथाऽपि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १ ॥
कवचस्तु महादेवि कथयस्वानुकम्पया ।
यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥ २ ॥
श्रीदेव्युवाच ।
शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् ।
न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३ ॥
कालिका जगतां माता शोकदुःखविनाशिनी ।
विशेषतः कलियुगे महापातकहारिणी ॥ ४ ॥
अथ कवचम् –
काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।
कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५ ॥
विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।
उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६ ॥
वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।
घना ग्रीवं सदा पातु बलाका बाहुयुग्मकम् ॥ ७ ॥
मात्रा पातु करद्वन्द्वं वक्षो मुद्रा सदावतु ।
मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८ ॥
ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
ऊरू माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥ ९ ॥
कौमारी च कटिं पातु तथैव जानुयुग्मकम् ।
अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १० ॥
सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ११ ॥
तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।
ऊर्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२ ॥
हिंस्रेभ्यः सर्वदा पातु साधकं च जलाधिकात् ।
दक्षिणाकालिका देवी व्यापकत्वे सदावतु ॥ १३ ॥
इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् ।
न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४ ॥
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।
तत्र तत्राऽभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५ ॥
इति कालीकुलसर्वस्वे श्री दक्षिणकालिका कवचम् ।
Found a Mistake or Error? Report it Now