Download HinduNidhi App
Misc

श्री शिव स्तुतिः (अन्धक कृतम्)

Andhaka Krita Shiva Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री शिव स्तुतिः (अन्धक कृतम्) ||

नमोऽस्तुते भैरव भीममूर्ते त्रैलोक्य गोप्त्रेशितशूलपाणे ।
कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि विपन्न बुद्धिम् ॥ १ ॥

जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ ।
त्रैलोक्य मातर्गुरवे वृषाङ्क भीतश्शरण्यं शरणा गतोस्मि ॥ २ ॥

त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणुममर्षिताश्च ।
भीमं च यक्षा मनुजा महेश्वरं भूतानि भूताधिप मुच्चरन्ति ॥ ३ ॥

निशाचरास्तूग्रमुपाचरन्ति भवेति पुण्याः पितरो नमस्ते ।
दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ ॥ ४ ॥

भवां-स्त्रिदेव-स्त्रियुग-स्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र ।
त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां त्वां शरणं गतोऽस्मि ॥ ५ ॥

त्रिणाचिकेत-स्त्रिपदप्रतिष्ठ-ष्षडङ्गवित् स्त्रीविषयेष्वलुब्धः ।
त्रैलोक्यनाथोसि पुनीहि शंभो दासोऽस्मि भीतश्शरणागतस्ते ॥ ६ ॥

कृतो महाशङ्कर तेऽपराधो मया महाभूतपते गिरीश ।
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि ॥ ७ ॥

पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां देवदेवेश सर्वपापहरो भव ॥ ८ ॥

मम दैवापराधोस्ति त्वया वै तादृशोप्यहम् ।
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर ॥ ९ ॥

त्वं कर्ता चैव धाता च जयत्वं च महाजय ।
त्वं मङ्गल्यस्त्वमोङ्कार-स्त्वमोङ्कारो व्ययो धृतः ॥ १० ॥

त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तमः ॥ ११ ॥

सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्चधीवरः ।
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥ १२ ॥

त्वमादिरन्तो मध्यं च त्वमेव च सहस्रपात् ।
विजयस्त्वं सहस्राक्षो चित्तपाख्यो महाभुजः ॥ १३ ॥

अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोच्युतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः ॥ १४ ॥

त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः ।
जयश्च शूलपाणि स्त्वं पाहि मां शरणागतम् ॥ १५ ॥

इति श्रीवामनपुराणान्तर्गता अन्धककृत शिवस्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री शिव स्तुतिः (अन्धक कृतम्) PDF

Download श्री शिव स्तुतिः (अन्धक कृतम्) PDF

श्री शिव स्तुतिः (अन्धक कृतम्) PDF

Leave a Comment