Shri Krishna

अष्टावक्रकृतं श्रीकृष्णस्तोत्रम्

Ashtavakrakrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्टावक्रकृतं श्रीकृष्णस्तोत्रम् ||

अष्टावक्र उवाच ।
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ ४०॥

सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर ।
सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ॥ ४१॥

हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ।
वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते ॥ ४२॥

ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर ।
सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ॥ ४३॥

प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर ।
संसारवृक्ष तद्बीज फलरूप नमोऽस्तु ते ॥ ४४॥

सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ।
महाविराट्तरोर्बीज राधिकेश नमोऽस्तु ते ॥ ४५॥

अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ।
शाखाप्रशाखा वेदाद्यास्तपांसि कुसुमानि च ॥ ४६॥

संसारविफला एव प्रकृत्यङ्कुरमेव च ।
तदाधार निराधार सर्वाधार नमोऽस्तु ते ॥ ४७॥

तेजोरूप निराकार प्रत्यक्षानूहमेव च ।
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ॥ ४८॥

इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ।
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ॥ ४९॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे कोनत्रिंशाध्यायान्तर्गतं
अष्टावक्रकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download अष्टावक्रकृतं श्रीकृष्णस्तोत्रम् PDF

अष्टावक्रकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App