Download HinduNidhi App
Misc

पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्)

Brahma Kruta Pitru Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्) ||

ब्रह्मोवाच ।
नमः पित्रे जन्मदात्रे सर्वदेवमयाय च ।
सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ १ ॥

सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने ।
सर्वतीर्थावलोकाय करुणासागराय च ॥ २ ॥

नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः ।
सदाऽपराधक्षमिणे सुखाय सुखदाय च ॥ ३ ॥

दुर्लभं मानुषमिदं येन लब्धं मया वपुः ।
सम्भावनीयं धर्मार्थे तस्मै पित्रे नमो नमः ॥ ४ ॥

तीर्थस्नानतपोहोमजपादीन् यस्य दर्शनम् ।
महागुरोश्च गुरवे तस्मै पित्रे नमो नमः ॥ ५ ॥

यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम् ।
अश्वमेधशतैस्तुल्यं तस्मै पित्रे नमो नमः ॥ ६ ॥

इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः ।
प्रत्यहं प्रातरुत्थाय पितृश्राद्धदिनेऽपि च ॥ ७ ॥

स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा ।
न तस्य दुर्लभं किञ्चित् सर्वज्ञत्वादि वाञ्छितम् ॥ ८ ॥

नानापकर्म कृत्वाऽपि यः स्तौति पितरं सुतः ।
स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत् ।
पितृप्रीतिकरैर्नित्यं सर्वकर्माण्यथार्हति ॥ ९ ॥

इति बृहद्धर्मपुराणान्तर्गत ब्रह्मकृत पितृ स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download पितृ स्तोत्रम् - ३ (ब्रह्म कृतम्) PDF

पितृ स्तोत्रम् - ३ (ब्रह्म कृतम्) PDF

Leave a Comment