Download HinduNidhi App
Misc

श्री सूर्य स्तुतिः (ब्रह्म कृतम्)

Brahma Krutha Surya Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री सूर्य स्तुतिः (ब्रह्म कृतम्) ||

ब्रह्मोवाच ।
आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः ।
आदिकर्ताऽसि भूतानां देवदेवो दिवाकरः ॥ १ ॥

जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ २ ॥

त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवस्वान् वरुणस्तथा ॥ ३ ॥

त्वं कालः सृष्टिकर्ता च हर्ता भर्ता तथा प्रभुः ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ ४ ॥

प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ।
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ ५ ॥

शिवात्परतरो देवस्त्वमेव परमेश्वरः ।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥ ६ ॥

सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥ ७ ॥

प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
दुर्निरीक्ष्यं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ ८ ॥

सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
स्तुतस्य परमव्यक्तं यद्रूपं तस्य ते नमः ॥ ९ ॥

वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
सर्वदेवाधिदेवस्य यद्रूपं तस्य ते नमः ॥ १० ॥

विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् ।
विश्वस्थितमवेद्यं च यद्रूपं तस्य ते नमः ॥ ११ ॥

परं यज्ञात्परं वेदात्परं लोकात्परं दिवः ।
परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ १२ ॥

अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् ।
अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ १३ ॥

नमो नमः कारणकारणाय
नमो नमः पापविमोचनाय ।
नमो नमस्तेऽदितिवन्दिताय
नमो नमो रोगविनाशनाय ॥ १४ ॥

नमो नमः सर्ववरप्रदाय
नमो नमः सर्वसुखप्रदाय ।
नमो नमः सर्वधनप्रदाय
नमो नमः सर्वमतिप्रदाय ॥ १५ ॥

इति श्रीब्रह्मपुराणे एकत्रिंशोऽध्याये ब्रह्मकृत श्री सूर्य स्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सूर्य स्तुतिः (ब्रह्म कृतम्) PDF

श्री सूर्य स्तुतिः (ब्रह्म कृतम्) PDF

Leave a Comment