Download HinduNidhi App
Misc

श्री बुध कवचम्

Budha Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री बुध कवचम् ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः।

बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥

घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ।
कण्ठं पातु विधोः पुत्रो भुजौ पूस्तकभूषणः ॥

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥

जानुनी रौहिणेयश्च पातु जङ्घेऽखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥

॥ इति बुधकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री बुध कवचम् PDF

Download श्री बुध कवचम् PDF

श्री बुध कवचम् PDF

Leave a Comment