श्रीदेवी ताण्डवस्तोत्रम्
|| श्रीदेवी ताण्डवस्तोत्रम् || अथ श्रीदेवी ताण्डवं । ॐ तत् सत् । अमरतापसभूपसुरयोगिभिर्नुतपदाबुरुहे प्रणमास्पदे निगममूर्धिनि नित्यविनोदिनि भवभयाभवमां परमेश्वरी । ॐ तत् सत् । अथ कुदाचित् । अकारोकारमकारबिन्दुनादस्वरूपिणी । अखिलजगदैककारिणी । अखण्डपरिपूर्ण सच्चिदानन्दस्वरूपिणी । अरुणकोटिकोटि प्रकाशदर्शिताश्रयाशार्कसोममण्डला नामुपरि । श्रीसादाख्य कलारूपत्वेनसाक्षिरूपतया । अनेककोटि ब्रह्माण्डानां । देवमनुश्यतिर्यग्योनिजातीनां । स्तापरजङ्गमाण्डजाति चतुर्विधयोनि जातानां । तेशुत्तममध्यमाधमानां । पुण्यमिश्रपापकर्मानु जातानामपि । अतलवितलसुतलतलातल…