तारा प्रत्यङ्गिराकवचम्
|| तारा प्रत्यङ्गिराकवचम् || ॐ प्रत्यङ्गिरायै नमः । ईश्वर उवाच ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा । हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥ शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः । धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २॥ ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३॥ ॐ क्षोभिणी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥…