श्री शिव स्तोत्रम् (देवदानव कृतम्) PDF संस्कृत
Download PDF of Deva Danava Krita Shiva Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री शिव स्तोत्रम् (देवदानव कृतम्) संस्कृत Lyrics
|| श्री शिव स्तोत्रम् (देवदानव कृतम्) ||
देवदानवा ऊचुः ।
नमस्तुभ्यं विरूपाक्ष सर्वतोऽनन्तचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय धन्विने ॥ १ ॥
नमस्त्रिशूलहस्ताय दण्डहस्ताय धूर्जटे ।
नमस्त्रैलोक्यनाथाय भूतग्रामशरीरिणे ॥ २ ॥
नमः सुरारिहन्त्रे च सोमाग्न्यर्काग्र्यचक्षुषे ।
ब्रह्मणे चैव रुद्राय नमस्ते विष्णुरूपिणे ॥ ३ ॥
ब्रह्मणे वेदरूपाय नमस्ते देवरूपिणे ।
साङ्ख्ययोगाय भूतानां नमस्ते शम्भवाय ते ॥ ४ ॥
मन्मथाङ्गविनाशाय नमः कालक्षयङ्कर ।
रंहसे देवदेवाय नमस्ते वसुरेतसे ॥ ५ ॥
एकवीराय सर्वाय नमः पिङ्गकपर्दिने ।
उमाभर्त्रे नमस्तुभ्यं यज्ञत्रिपुरघातिने ॥ ६ ॥
शुद्धबोधप्रबुद्धाय मुक्तकैवल्यरूपिणे ।
लोकत्रयविधात्रे च वरुणेन्द्राग्निरूपिणे ॥ ७ ॥
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ।
अग्राय चैव चोग्राय विप्राय श्रुतिचक्षुषे ॥ ८ ॥
रजसे चैव सत्त्वाय तमसे स्थिमितात्मने ।
अनित्यनित्यभासाय नमो नित्यचरात्मने ॥ ९ ॥
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्तात्मने नमः ।
भक्तानामार्तिनाशाय प्रियनारायणाय च ॥ १० ॥
उमाप्रियाय शर्वाय नन्दिवक्त्राञ्चिताय वै ।
ऋतुमन्वन्तकल्पाय पक्षमासदिनात्मने ॥ ११ ॥
नानारूपाय मुण्डाय वरूथ पृथुदण्डिने ।
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ १२ ॥
धन्विने रथिने चैव यतये ब्रह्मचारिणे ।
इत्येवमादिचरितैः स्तुतं तुभ्यं नमो नमः ॥ १३ ॥
इति श्रीमत्स्यपुराणे क्षीरोदमथवर्णनो नाम पञ्चाशदधिकद्विशततमोऽध्याये देवदानवकृत शिवस्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शिव स्तोत्रम् (देवदानव कृतम्)

READ
श्री शिव स्तोत्रम् (देवदानव कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
