श्री शिव स्तुतिः (देव कृतम्) PDF संस्कृत
Download PDF of Deva Krita Shiva Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री शिव स्तुतिः (देव कृतम्) संस्कृत Lyrics
|| श्री शिव स्तुतिः (देव कृतम्) ||
देवा ऊचुः ।
नमः सहस्रनेत्राय नमस्ते शूलपाणिने ।
नमः खट्वाङ्गहस्ताय नमस्ते दण्डधारिणे ॥ १ ॥
त्वं देवहुतभुग्ज्वाला कोटिभानुसमप्रभः ।
अदर्शने वयं देव मूढविज्ञानतोधुना ॥ २ ॥
नमस्त्रिनेत्रार्तिहराय शम्भो
त्रिशूलपाणे विकृतास्यरूप ।
समस्त देवेश्वर शुद्धभाव
प्रसीद रुद्राऽच्युत सर्वभाव ॥ ३ ॥
भगास्य दन्तान्तक भीमरूप
प्रलम्ब भोगीन्द्र लुलुन्तकण्ठ ।
विशालदेहाच्युत नीलकण्ठ
प्रसीद विश्वेश्वर विश्वमूर्ते ॥ ४ ॥
भगाक्षि संस्फोटन दक्षकर्मा
गृहाण भागं मखतः प्रधानम् ।
प्रसीद देवेश्वर नीलकण्ठ
प्रपाहि नः सर्वगुणोपपन्न ॥ ५ ॥
सीताङ्गरागा प्रतिपन्नमूर्ते
कपालधारिंस्त्रिपुरघ्नदेव ।
प्रपाहि नः सर्वभयेषु चैकं
उमापते पुष्करनालजन्म ॥ ६ ॥
पश्यामि ते देहगतान् सुरेश
सर्गारयोवेदवराननन्त ।
साङ्गन् सविद्यान् सपदक्रमांश्च
सर्वान्निलीनांस्त्वयि देवदेव ॥ ७ ॥
भव शर्व महादेव पिनाकिन् रुद्र ते हर ।
नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ॥ ८ ॥
इति श्रीवराहपुराणान्तर्गत देवकृत शिवस्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शिव स्तुतिः (देव कृतम्)
READ
श्री शिव स्तुतिः (देव कृतम्)
on HinduNidhi Android App