Shri Ganesh

श्रीगणाधिपति पञ्चरत्नस्तोत्रम्

Ganadhipati 5 Stotram Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणाधिपति पञ्चरत्नस्तोत्रम् ||

ॐ सरागिलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः
नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥ १॥

गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं
करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।
सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं
शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥ २॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ।
चकासतं चतुर्भुजैः विकासिपद्मपूजितं
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३॥

नराधिपत्वदायकं स्वरादिलोकनायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः
हृदासदाविभावितं मुदा नमामि विघ्नपम् ॥ ४॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसम्भवं
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५॥

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्
चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः ॥ ॐ ॥

॥ इति दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द
शिवाभिनव नृसिंहभारती महास्वामिभिः विरचितम्
श्री गणाधिपति पञ्चरत्न स्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणाधिपति पञ्चरत्नस्तोत्रम् PDF

श्रीगणाधिपति पञ्चरत्नस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App