|| ब्रह्माद्याकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ब्रह्माद्या ऊचुः ।
अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् ।
मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥
अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् ।
चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥
जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् ।
विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥
तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् ।
अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७॥
प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् ।
चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८॥
महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् ।
परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९॥
नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च ।
विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३०॥
अनाथानां प्रणाथाय शक्तये मोहधारिणे ।
कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१॥
मयूरेशाय देवाय मयूरध्वजधारिणे ।
विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२॥
किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् ।
यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३॥
अतो नमामहे नाथ तेन तुष्टो भवस्व च ।
भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४॥
एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः ।
साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६॥
वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् ।
तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७॥
इति ब्रह्माद्याकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Read in More Languages:- hindiवक्रतुंड स्तुति
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now

