Shri Ganesh

कार्तवीर्यकृता श्रीगणनाथस्तुतिः

Gananathastutih Kartaviryakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| कार्तवीर्यकृता श्रीगणनाथस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

कार्तवीर्य उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥

निर्गुणाय परेशाय परात्परतराय वै ।
अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥

सर्वपूज्याय हेरम्ब दीनपालाय ते नमः ।
ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥

निराकाराय साकाररूपाय परमात्मने ।
योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ ३१॥

सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने ।
आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ ३२॥

रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ ३३॥

नानामायाधरायैव नानामायाविवर्जित ।
मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ ३४॥

स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ ३५॥

किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे ।
शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ ३६॥

जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ ३७॥

(फलश्रुतिः)
गणनाथ उवाच ।
त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ ३८॥

कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् ।
तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ ३९॥

इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ ४०॥

इति कार्तवीर्यकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download कार्तवीर्यकृता श्रीगणनाथस्तुतिः PDF

कार्तवीर्यकृता श्रीगणनाथस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App