|| श्रीगणेशचतुर्युगावतारस्तोत्रम् ||
मुनिरुवाच ।
गौरि ! तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥
गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३॥
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः ॥ १४॥
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५॥
एतस्य रक्षणं गौरि ! दैत्येभ्यः कुरु सर्वदा ।
इति श्रीगणेशचतुर्युगावतारस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- hindiऋणहर्ता श्री गणेश स्तोत्रम्
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
Found a Mistake or Error? Report it Now

