Shri Ganesh

श्रीगणेशगीतासारस्तोत्रम्

Ganeshagitasara Stotram Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशगीतासारस्तोत्रम् ||

श्री गणेशाय नमः ।

शिव उवाच ।
गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः ।
पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥

गणेश उवाच ।
देहश्चतुर्विधः प्रोक्तस्त्वंपदं ब्रह्मभिन्नतः ।
सोऽहं देहि चतुर्धा तत्पदं ब्रह्म सदैकतः ॥ २॥

संयोग उभयोर्यच्चासिपदं ब्रह्म कथ्यते ।
स्वत उत्थानकं देवा विकल्पकरणात्रिधा ॥ ३॥

सदा स्वसुखनिष्ठं यद्ब्रह्म सांख्यं प्रकीर्तितम् ।
परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४॥

स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते ।
स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५॥

तदेव पञ्चधा जातं तन्निबोधत ईश्वराः ।
स्वतश्च परतो ब्रह्मोत्थानं यत्रिविधं स्मृतम् ॥ ६॥

ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः ।
तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७॥

रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते ।
सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८॥

तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते ।
शक्तिसूर्यमयो विष्णुश्चिदानन्दात्मको हि सः ॥ ९॥

त्रिविधेषु तदाकारस्तत्क्रियाहीनरूपकः ।
नेति शिवश्चतुर्थोऽयं त्रिनेति कारकात्परः ॥ १०॥

त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः ।
तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगकः ॥ ११॥

पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् ।
ब्रह्मा तदेव विज्ञेयः सर्वादिः सर्वभावतः ॥ १२॥

बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः ।
असत्सत्सदसच्चेति स्वानन्दरूपा वयं स्मृताः ॥ १३॥

स्वानन्दाद्यत्परं ब्रह्मयोगाख्यं ब्रह्मणां भवेत् ।
केषामपि प्रवेशो न तत्र तस्यापि कुत्रचित् ॥ १४॥

मदीयं दर्शनं तत्र योगेन योगिनां भवेत् ।
स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५॥

तेन स्वानन्द आसीनं वेदेषु प्रवदन्ति माम् ।
चतुर्णां ब्रह्मणां योगात्संयोगाभेदयोगतः ॥ १६॥

संयोगश्च ह्ययोगश्च तयोः परतयोर्मतः ।
पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८॥

पञ्चभूतनिरोधेन प्राप्यते योगिभिर्हृदि ।
शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९॥

एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया ।
नित्यं युञ्जन्त योगेन नैव मोहं प्रगच्छत ॥ २०॥

चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता ।
नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१॥

त्यक्त्वा चिन्ताभिमानं ये गणेशोऽहंसमाधिना ।
भविष्यथ भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२॥

शिव उवाच ।
इत्युक्त्वा विररामाथ गणेशो भक्तवत्सलः ।
तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३॥

एकविंशतिश्लोकैस्तैर्गणेशेन प्रकीर्तितम् ।
गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४॥

गणेशगीतासारं च यः पठिष्यति भावतः ।
श्रोष्यति श्रद्दधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ २५॥

इह भुक्त्वाऽखिलान्भोगानन्ते योगमयो भवेत् ।
दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६॥

इति मुद्गलपुराणोक्तं गणेशगीतासारस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशगीतासारस्तोत्रम् PDF

श्रीगणेशगीतासारस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App