Shri Ganesh

श्रीगणेशकुण्डतीर्थस्तोत्रम्

Ganeshakundatirthastotram Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशकुण्डतीर्थस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

ब्रह्मोवाच ।
नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च ।
अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ २॥

अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् ।
गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ ३॥

भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् ।
अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ ४॥

तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च ।
सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ ५॥

स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः ।
नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ ६॥

प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै ।
तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ ७॥

वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् ।
साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ ८॥

धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन ।
तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ ९॥

त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् ।
विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ १०॥

त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः ।
किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ ११॥

(फलश्रुतिः)
भृशुण्ड्युवाच ।
स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः ।
भुक्तिं मुक्तिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् ॥ १२॥

इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ १३॥

ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः ।
पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ १४॥

पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः ।
न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ १५॥

ततः प्रणम्य विघ्नेशं योगमायासमन्वितः ।
सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ १६॥

जगाद गणराजश्च ततस्तं हर्षसंयुतः ।
मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ १७॥

मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् ।
मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ १८॥

ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः ।
जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ १९॥

इति श्रीगणेशकुण्डतीर्थस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशकुण्डतीर्थस्तोत्रम् PDF

श्रीगणेशकुण्डतीर्थस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App