Shri Ganesh

साधुकृतं श्रीगणेशस्तोत्रम्

Ganeshastotram Sadhukrritam Sanskrit Lyrics

Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| साधुकृतं श्रीगणेशस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

साधुरुवाच ।
हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने ।
अनाकाराय देवाय साकाराय नमो नमः ॥ २१॥

लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये ।
अनादये परेशाय गणेशाय नमो नमः ॥ २२॥

स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे ।
भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३॥

सर्वाकाराय सर्वादिपूज्याय परमात्मने ।
ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ २४॥

निराकाराय सर्वेषां पूज्याय परमप्रिय ।
विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ २५॥

मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः ।
ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ २६॥

शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे ।
चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ २७॥

अग्नये नैरृतायैव कुबेराय धराधर ।
नराय पशुरूपाय नमो नागासुराय ते ॥ २८॥

चराचरमयायैव चराचरविवर्जित ।
समाय सहजायैव स्वसंवेद्याय ते नमः ॥ २९॥

योगाय शान्तिनाथाय शान्तिदाय नमो नमः ।
किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ ३०॥

धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् ।
वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ ३१॥

एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च ।
तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ ३२॥

(फलश्रुतिः)
श्रीगणेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ३३॥

त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् ।
भविष्यति महाभाग पठतां श‍ृण्वतां सदा ॥ ३४॥

सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् ।
नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ ३५॥

एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ ३६॥

एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः ।
मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ ३७॥

अन्यच्च श‍ृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् ।
मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ ३८॥

एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः ।
स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ ३९॥

समागते मार्गशीर्षे स्नानं कृत्वा महामतिः ।
गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ ४०॥

ततः परं नृपस्यैव चकार सेवनं सदा ।
पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ ४१॥

तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ।
मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ ४२॥

तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् ।
एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ ४३॥

इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः ।
किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ ४४॥

इदं यः श‍ृणुयान्नित्यं मार्गशीर्षे नरोत्तमः ।
पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ ४५॥

मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया ।
कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ ४६॥

इति साधुकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download साधुकृतं श्रीगणेशस्तोत्रम् PDF

साधुकृतं श्रीगणेशस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App