|| श्रीविष्णुकृतं गणेशस्तोत्रम् ||
नारायण उवाच ।
अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ।
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ १॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ २॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३॥ var वायुतुल्याति
संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ ४॥
वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥ ५॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६॥
बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ॥ ७॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ॥ ८॥
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ ९॥ var वदनेन च
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १०॥
इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि । var सुरेशं सुरसंसदि
सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२॥
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३॥
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४॥
तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५॥
भवेद्विनाशः शत्रूणां बन्धूनां चापिवर्धनम् । var च विवर्धनम्
शश्वदिघ्नविनाशश्च शश्वत्सम्यग्विवर्धनम् ॥ १६॥
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्धनम् ।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७॥
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे
श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥
- englishShri Santan Ganpati Stotra
- englishShri Pancharatna Ganpati Stotram
- hindiश्री पंचरत्न गणपति स्तोत्र
- hindiश्री पंचरत्न गणपति स्तोत्रम् अर्थ सहित
- hindiश्री संतानगणपति स्तोत्रम् अर्थ सहित
- hindiश्री गणाधिपत स्तोत्रम्
- sanskritशत्रु संहारकम श्री ऐक दन्त स्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीशिवकृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now