Shri Ganesh

काशिराजो जना कृता श्रीगणेशस्तुतिः

Ganeshastuti Kashirajojanakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| काशिराजो जना कृता श्रीगणेशस्तुतिः ||

ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।
नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥ ६०॥

यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ ६१॥

हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ ६२॥

स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।
नक्षत्राणां ग्रहाणां चपिशाचानां चवीरुधाम् ॥ ६३॥

वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थिति संहारकारिणे ते नमो नमः ॥ ६४॥

पशूनां पतये तुभ्यं तत्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ ६५॥

नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो ! नमस्तुभ्यं नमो विघ्नहराय ते ॥ ६६॥

नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मन् ! तापत्रयहराय ते ॥ ६७॥

सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ ६८॥

अदित्या जठरोत्पन्न ! विनायक ! नमोऽस्तु ते ।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ ६९॥

अमेयमायान्वित विक्रमाय मायाविने मायिकमोहनाय ।
अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते ॥ ७०॥

एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा ।
त्यक्त्वा तां राक्षसीं छित्त्वा खण्डशो दूरतः पुरात् ॥ ७१॥

य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम् ।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च ॥ ७२॥

त्रिसन्ध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात् ।
विनायकः सदा तस्य रक्षणं कुरतेऽनघ ॥ ७३॥

इति काशिराजकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download काशिराजो जना कृता श्रीगणेशस्तुतिः PDF

काशिराजो जना कृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App