Shri Ganesh

देवा मुनयश्चकृता श्रीगणेशस्तुतिः

Ganeshastutih Deva Munayashchakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवा मुनयश्चकृता श्रीगणेशस्तुतिः ||

देवा मुनयश्चोचुः ।
नमो विघ्नस्वरूपाय ! नमस्ते विघ्नहारिणे ! ॥ २५॥

नमस्ते सर्वरूपाय ! सर्वसाक्षिन्! नमोऽस्तुते ।
नमो देवाय महते ! नमस्ते जगदादये ! ॥ २६॥

नमः कृपानिधे ! तुभ्यं जगत्पालन हेतवे ! ।
नमस्ते पूर्णतमसे ! सर्वसंहारकारिणे ॥ २७॥

नमस्ते भक्तवरद ! सर्वदात्रे ! नमो नमः ।
नमस्तेऽनन्यशरण ! सर्वकामप्रपूरक ! ॥ २८॥

नमस्ते वेदविदुषे ! नमस्ते वेदकारिणे ! ।
कमन्यं शरणं यामः को नु नः स्याद् भयापह ॥ २९॥

अकाल एव प्रलयः कथं लब्धो जनैरयम् ।
हा गजानन ! देवेश ! हा हा विघ्नहराव्यय ! ॥ ३०॥

सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।
इति तद्वचनं श्रुत्वा करुणाब्धिर्गजाननः ॥ ३१॥

आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा ।
बिभ्रत् कमलनयने शतचन्द्रनिभाननम् ॥ ३२॥

कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।
कुन्दकुड्मलशोभाजिद्दशनोऽधरबिम्बजित् ॥ ३३॥

उन्नसो भृकुटीचारुनयनः कम्बुकण्ठयुक् ।
विशालवक्षा जानुस्पृग्भुजद्वययुतो बली ॥ ३४॥

गम्भीरनाभिविलसदुदरोऽतिलसत्कटिः ।
रम्भाशोभापरिस्पर्द्धिगुरुरुश्चासजानुयुक् ॥ ३५॥

सुचारुजङ्घागुल्फश्रीविलसत्पादपद्मकः ।
नानालङ्कारशोभाढ्यो महार्घवसनावृतः ॥ ३६॥

एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।
उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ॥ ३७॥

प्रणेमुर्दण्डवद् भूमौ शक्रं देवगणा यथा ।

इति देवा मुनयश्चकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download देवा मुनयश्चकृता श्रीगणेशस्तुतिः PDF

देवा मुनयश्चकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App