Shri Ganesh

कामकृता श्रीगणेशस्तुतिः

Ganeshastutih Kamakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| कामकृता श्रीगणेशस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

काम उवाच ।
गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे ।
दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥

गजवक्त्राय देवाय शूर्पकर्णाय वै नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥

सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥

देहदेहिमयायैव प्रकृतेर्लयरूपिणे ।
विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५॥

रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६॥

जगद्रूपाय वै तुभ्यं स्थावराय चराय च ।
अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७॥

वेदाद्यगम्यरूपाय योगेभ्यो योगदायक ।
किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८॥

अधुना मे वरं देहि गजानन दृढां पराम् ।
भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९॥

एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः ।
ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४०॥

इति कामकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download कामकृता श्रीगणेशस्तुतिः PDF

कामकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App