Shri Ganesh

चन्द्रकृता श्रीगणेशस्तुतिः

Ganeshastutihchandrakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| चन्द्रकृता श्रीगणेशस्तुतिः ||

चन्द्र उवाच ।
नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरते जनानाम् ।
धर्मार्थकामाँस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥ ४१॥

कृपानिधे ब्रह्ममयाय देव ! विश्वात्मने विश्वविधानदक्ष ! ।
विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते ॥ ४२॥

त्रयीमयाऽखिलबुद्धिदात्रे बुद्धिप्रदीपाय सुराधिपाय ।
नित्याय सत्याय च नित्यबुद्धे ! नित्यं निरीहाय नमोऽस्तु नित्यम् ॥ ४३॥

अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि दयाकर ! त्वम् ।
तवापि दोषः शरणागतस्य त्यागे महात्मन् ! कुरु मेऽनुकम्पाम् ॥ ४४॥

ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः ।
तस्मै वरान् ददौ देवः स्तुत्या नत्या सुतोषितः ॥ ४५॥

यथापूर्वं स्थितं रूपं तथा तत् ते भविष्यति ।
भाद्रशुक्लचतुर्थ्यां त्वां यो नरः सम्प्रपश्यति ॥ ४६॥

तस्याभिशापो नूनं स्यात् पापं हानिश्च मूर्खता ।
तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह ॥ ४७॥

कृष्णपक्षे चतुर्थ्यां तु व्रतं यत् क्रियते नरैः ।
तवोदयेऽहं पूज्यस्त्वं पूजनीयः प्रयत्नतः ॥ ४८॥

दर्शनीयः प्रयत्नेन विपरीते व्रतं वृथा ।
ललाटे कलया तिष्ठ मम प्रीतिकरः शशिन् ॥ ४९॥

प्रतिमासं दिद्वतीयायां नमस्यश्च भविष्यसि ।
एवं लब्धवरश्चन्द्रो यथापूर्वोऽभवत् तदा ॥ ५०॥

इति चन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download चन्द्रकृता श्रीगणेशस्तुतिः PDF

चन्द्रकृता श्रीगणेशस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App