Shri Ganesh

गणेशस्तुतिः गुणेशकृता

Ganeshastutihguneshakrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गणेशस्तुतिः गुणेशकृता ||

श्रीगणेशाय नमः ।
गुणेश उवाच ।
नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै ।
अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥

अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥

सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् ।
निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥

विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् ।
सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५॥

सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् ।
अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६॥

अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् ।
गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७॥

अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् ।
अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८॥

गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् ।
गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९॥

समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् ।
अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५०॥

जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् ।
जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१॥

स्तुतं सदा देवमुनीन्द्रसिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् ।
सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२॥

असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् ।
मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३॥

रविस्वरूपं ह्यमृतं पुराणमभेदमेकात्मकमात्मरूपम् ।
अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४॥

समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च ।
सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५॥

अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् ।
अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६॥

पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् ।
बोधात्मकं त्वंपदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७॥

अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् ।
गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८॥

गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः ।
सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९॥

यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् ।
गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥ ६०॥

मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् ।
निवृत्तिरूपं शरणं सदा वै नमामि ते सर्ववरिष्ठमाद्यम् ॥ ६१॥

न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे ।
गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२॥

जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् ।
येन दृष्टो गणाधीशः कृतकृत्योऽम्मि साम्प्रतम् ॥ ६३॥

मह्यं यदि वरो दयस्तदा भक्तिं दृढां त्वयि ।
देहि मे परमेशान यया मोहो विनश्यति ॥ ६४॥

सृष्टिसजनसामर्थ्यं भजतां कामपूरणम ।
निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५॥

गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः ।
मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६॥

श्रीगणेश उवाच ।
भविता में महाभक्तिः मृष्टीनां रचनास्तथा ।
नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवत् ॥ ६७॥

भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ ।
महाकार्ये समुत्पन्ने दाम्येऽहं दर्शनं च ते ॥ ६८॥

स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति ।
पठतां श‍ृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९॥

स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् ।
भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७०॥

सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् ।
निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१॥

मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् ।
त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२॥

श्रीशिव उवाच ।
इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः ।
देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३॥

इति गुणेशकृता समाप्ता गणेशस्तुतिः । १.८

Read in More Languages:

Found a Mistake or Error? Report it Now

Download गणेशस्तुतिः गुणेशकृता PDF

गणेशस्तुतिः गुणेशकृता PDF

Leave a Comment

Join WhatsApp Channel Download App