|| ऋषिपुत्राकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ऋषिपुत्रा ऊचुः ।
नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे ।
ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥
मनोवागतिरूपाय मनोवारगम्यमूर्तये ।
योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥
निराकाराय विघ्नेश भक्तविघ्ननिवारक ।
शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७॥
सृष्टिरक्षणसंहारकारिणे ते नमो नमः ।
सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥
मायाविकारहीनाय मायिने मोहदायिने ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥
अनन्तविभयायैवानन्तोदारपराक्रम ।
अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १०॥
वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् ।
स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११॥
धन्यो नो जनको देव वयं धन्यतमा विभो ।
विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ १२॥
वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि ।
यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३॥
स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन ।
यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४॥
एवमुक्त्वा पूजयन्त उपचारैरनेकशः ।
प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ १५॥
ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् ।
तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥
(फलश्रुतिः)
भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा ।
सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ १८॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥
स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः ।
सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥
इति ऋषिपुत्राकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
- sanskritरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now