Download HinduNidhi App
Misc

गायत्री हृदयम्

Gayatri Hridayam Sanskrit

MiscHridayam (हृदयम् संग्रह)संस्कृत
Share This

|| गायत्री हृदयम् ||

ॐ इत्येकाक्षरं ब्रह्म, अग्निर्देवता, ब्रह्म इत्यार्षम्,
गायत्रं छन्दं, परमात्मम् स्वरूपं, सायुज्यं विनियोगम् ।
आयातु वरदा देवी अक्षर ब्रह्म सम्मितम् ।
गायत्री छन्दसां माता इदं ब्रह्म जुहस्व मे ॥

यदन्नात्कुरुते पापं तदन्नत्प्रतिमुच्यते ।
यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते ॥

सर्व वर्णे महादेवि सन्ध्या विद्ये सरस्वति ।
अजरे अमरे देवि सर्व देवि नमोऽस्तुते ॥

ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि
देवानां धाम नामासि विश्वमसि ।
विश्वायुः सर्वमसि सर्वायुरभि भूरोम् ॥

गायत्रीं आवाहयामि सावित्रीं
आवाहयामि सरस्वतीं आवाहयामि ।
छन्दर्शिन आवाहयामि श्रियं
आवाहयामि बलं आवाहयामि ॥

गायत्र्या गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता ।
अग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयं रुद्रःशिखा ।
पृथिवी योनिः प्राणापान व्यानोदान समान सप्राण
श्वेतवर्ण सांख्यायन्यास गोत्र गायत्री चतुर्विंशत्यक्षरा
त्रिपाद षट् कुक्षिः पञ्चशीर्षोपनयने विनियोगः ॥

। इति गायत्री हृदयम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गायत्री हृदयम् PDF

गायत्री हृदयम् PDF

Leave a Comment