Download HinduNidhi App
Misc

लक्ष्मी विभक्ति वैभव स्तोत्र

Lakshmi Vibhakti Stotra Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| लक्ष्मी विभक्ति वैभव स्तोत्र ||

सुरेज्या विशाला सुभद्रा मनोज्ञा
रमा श्रीपदा मन्त्ररूपा विवन्द्या।

नवा नन्दिनी विष्णुपत्नी सुनेत्रा
सदा भावितव्या सुहर्षप्रदा मा।

अच्युतां शङ्करां पद्मनेत्रां सुमां
श्रीकरां सागरां विश्वरूपां मुदा।

सुप्रभां भार्गवीं सर्वमाङ्गल्यदां
सन्नमाम्युत्तमां श्रेयसीं वल्लभाम्।

जयदया सुरवन्दितया जयी
सुभगया सुधया च धनाधिपः।

नयदया वरदप्रियया वरः
सततभक्तिनिमग्नजनः सदा।

कल्याण्यै दात्र्यै सज्जनामोदनायै
भूलक्ष्म्यै मात्रे क्षीरवार्युद्भवायै।

सूक्ष्मायै मायै शुद्धगीतप्रियायै
वन्द्यायै देव्यै चञ्चलायै नमस्ते।

न वै परा मातृसमा महाश्रियाः
न वै परा धान्यकरी धनश्रियाः।

न वेद्मि चान्यां गरुडध्वजस्त्रियाः
भयात्खलान्मूढजनाच्च पाहि माम्।

सरसिजदेव्याः सुजनहितायाः
मधुहनपत्न्याः ह्यमृतभवायाः।

ऋतुजनिकायाः स्तिमितमनस्याः
जलधिभवायाः ह्यहमपि दासः।

मायां सुषमायां देव्यां विमलायां
भूत्यां जनिकायां तृप्त्यां वरदायाम्।

गुर्व्यां हरिपत्न्यां गौण्यां वरलक्ष्म्यां
भक्तिर्मम जैत्र्यां नीत्यां कमलायाम्।

अयि तापनिवारिणि वेदनुते
कमलासिनि दुग्धसमुद्रसुते।

जगदम्ब सुरेश्वरि देवि वरे
परिपालय मां जनमोहिनि मे।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download लक्ष्मी विभक्ति वैभव स्तोत्र PDF

लक्ष्मी विभक्ति वैभव स्तोत्र PDF

Leave a Comment