॥ श्री ललिता पञ्चरत्नं स्तोत्र ॥
प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥
प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥
॥ इति श्री ललिता पञ्चरत्नं स्तोत्र ॥
Read in More Languages:- hindiश्री कनकधारा स्तोत्र
- sanskritमीनाक्षी पञ्चरत्नम् स्तोत्रम
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
- sanskritश्रीलक्ष्मीलहरी
- sanskritअष्टलक्ष्मी स्तोत्र
- sanskritश्री लक्ष्मी नारायण हृदय स्तोत्र
- malayalamലക്ഷ്മീ നരസിംഹ ശരണാഗതി സ്തോത്രം
- teluguలక్ష్మీ నరసింహ శరణాగతి స్తోత్రం
- tamilலட்சுமி நரசிம்ம சரணாகதி ஸ்தோத்திரம்
- kannadaಲಕ್ಷ್ಮೀ ನರಸಿಂಹ ಶರಣಾಗತಿ ಸ್ತೋತ್ರ
- hindiलक्ष्मी नृसिंह शरणागति स्तोत्र
- malayalamലക്ഷ്മീ അഷ്ടക സ്തോത്രം
- teluguలక్ష్మీ అష్టక స్తోత్రం
- tamilலட்சுமி அஷ்டக ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now
