वीरभद्र भुजंग स्तोत्र

|| वीरभद्र भुजंग स्तोत्र || गुणादोषभद्रं सदा वीरभद्रं मुदा भद्रकाल्या समाश्लिष्टमुग्रम्। स्वभक्तेषु भद्रं तदन्येष्वभद्रं कृपाम्भोधिमुद्रं भजे वीरभद्रम्। महादेवमीशं स्वदीक्षागताशं विबोध्याशुदक्षं नियन्तुं समक्षे। प्रमार्ष्टुं च दाक्षायणीदैन्यभावं शिवाङ्गाम्बुजातं भजे वीरभद्रम्। सदस्यानुदस्याशु सूर्येन्दुबिम्बे कराङ्घ्रिप्रपातैरदन्तासिताङ्गे। कृतं शारदाया हृतं नासभूषं प्रकृष्टप्रभावं भजे वीरभद्रम्। सतन्द्रं महेन्द्रं विधायाशु रोषात् कृशानुं निकृत्ताग्रजिह्वं प्रधाव्य। कृष्णवर्णं बलाद्भासभानं प्रचण्डाट्टहासं भजे वीरभद्रम्। तथान्यान् दिगीशान् सुरानुग्रदृष्ट्या ऋषीनल्पबुद्धीन् धरादेववृन्दान्।…

अरुणाचलेश्वर स्तोत्र

|| अरुणाचलेश्वर स्तोत्र || काश्यां मुक्तिर्मरणादरुणाख्यस्याचलस्य तु स्मरणात्। अरुणाचलेशसंज्ञं तेजोलिङ्गं स्मरेत्तदामरणात्। द्विधेह सम्भूय धुनी पिनाकिनी द्विधेव रौद्री हि तनुः पिनाकिनी। द्विधा तनोरुत्तरतोऽपि चैको यस्याः प्रवाहः प्रववाह लोकः। प्रावोत्तरा तत्र पिनाकिनी या स्वतीरगान् संवसथान्पुनानी। अस्याः परो दक्षिणतः प्रवाहो नानानदीयुक् प्रववाह सेयम्। लोकस्तुता याम्यपिनाकिनीति स्वयं हि या सागरमाविवेश। मनाक् साधनार्तिं विना पापहन्त्री पुनानापि नानाजनाद्याधिहन्त्री। अनायासतो या पिनाक्याप्तिदात्री…

जंबुनाथ अष्टक स्तोत्र

|| जंबुनाथ अष्टक स्तोत्र || कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः। जयति ज्ञानमहीन्दुर्जन्मस्मृतिक्लान्तिहरदयाबिन्दुः। श्रितभृतिबद्धपताकः कलितोत्पलवननवमदोद्रेकः। अखिलाण्डमातुरेकः सुखयत्वस्मान् तपःपरीपाकः। कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः। श्रीमान् दमितत्रिपुरः श्रितजम्बूपरिसरश्चकास्तु पुरः। शमितस्मरदवविसरः शक्राद्याशास्यसेवनावसरः। कविवनघनभाग्यभरो गिरतु मलं मम मनःसरः शफरः। गृहिणीकृतवैकुण्ठः गेहितजम्बूमहीरुडुपकण्ठम्। दिव्यं किमप्यकुण्ठं तेजःस्तादस्मदवनसोत्कण्ठम्। कृतशमनदर्पहरणं कृतकेतफणितिचारिरथचरणम्। शक्रादिश्रितचरणं शरणं जम्बुद्रुमान्तिकाभरणम्। करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये। जगतामानन्दनिधये जम्बूतरुमूलनिलयसन्निधये। कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम्। श्रितजम्बूतरुमूलं शिक्षितकालं भजे जगन्मूलम्।

शिव षट्क स्तोत्र

|| शिव षट्क स्तोत्र || अमृतबलाहक- मेकलोकपूज्यं वृषभगतं परमं प्रभुं प्रमाणम्। गगनचरं नियतं कपालमालं शिवमथ भूतदयाकरं भजेऽहम्। गिरिशयमादिभवं महाबलं च मृगकरमन्तकरं च विश्वरूपम्। सुरनुतघोरतरं महायशोदं शिवमथ भूतदयाकरं भजेऽहम्। अजितसुरासुरपं सहस्रहस्तं हुतभुजरूपचरं च भूतचारम्। महितमहीभरणं बहुस्वरूपं शिवमथ भूतदयाकरं भजेऽहम्। विभुमपरं विदितदं च कालकालं मदगजकोपहरं च नीलकण्ठम्। प्रियदिविजं प्रथितं प्रशस्तमूर्तिं शिवमथ भूतदयाकरं भजेऽहम्। सवितृसमामित- कोटिकाशतुल्यं ललितगुणैः सुयुतं…

दुखतारण शिव स्तोत्र

|| दुखतारण शिव स्तोत्र || त्वं स्रष्टाप्यविता भुवो निगदितः संहारकर्तचाप्यसि त्वं सर्वाश्रयभूत एव सकलश्चात्मा त्वमेकः परः। सिद्धात्मन् निधिमन् महारथ सुधामौले जगत्सारथे शम्भो पालय मां भवालयपते संसारदुःखार्णवात्। भूमौ प्राप्य पुनःपुनर्जनिमथ प्राग्गर्भदुःखातुरं पापाद्रोगमपि प्रसह्य सहसा कष्टेन संपीडितम्। सर्वात्मन् भगवन् दयाकर विभो स्थाणो महेश प्रभो शम्भो पालय मां भवालयपते संसारदुःखार्णवात्। ज्ञात्वा सर्वमशाश्वतं भुवि फलं तात्कालिकं पुण्यजं त्वां स्तौमीश…

नटेश भुजंग स्तोत्र

|| नटेश भुजंग स्तोत्र || लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम्। उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः। दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम्। करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम्। समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम्। अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम्। दयालुं वरेण्यं रमानाथवन्द्यं महानन्दभूतं सदानन्दनृत्तम्। सभामध्यवासं चिदाकाशरूपं महेशं सभेशं…

रसेश्वर अष्टक स्तोत्र

|| रसेश्वर अष्टक स्तोत्र || भक्तानां सर्वदुःखज्ञं तद्दुःखादिनिवारकम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| भस्मबिल्वार्चिताङ्गं च भुजङ्गोत्तमभूषणम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| विपत्सु सुजनत्राणं सर्वभीत्यचलाशनिम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| शिवरात्रिदिने शश्वदारात्रं विप्रपूजितम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| अभिवाद्यं जनानन्दकन्दं वृन्दारकार्चितम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| गुडान्नप्रीतचित्तं च शिवराजगढस्थितम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| ऋग्यजुःसामवेदज्ञै रुद्रसूक्तेन सेचितम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| भक्तवत्सलमव्यक्तरूपं व्यक्तस्वरूपिणम्| पातालजह्नुतनयातीरे वन्दे रसेश्वरम्| रसेश्वरस्य सान्निध्ये यः…

वैद्येश्वर अष्टक स्तोत्र

|| वैद्येश्वर अष्टक स्तोत्र || माणिक्यरजतस्वर्णभस्मबिल्वादिभूषितम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| दधिचन्दनमध्वाज्यदुग्धतोयाभिसेचितम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| उदितादित्यसङ्काशं क्षपाकरधरं वरम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| लोकानुग्रहकर्तारमार्त्तत्राणपरायणम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| ज्वरादिकुष्ठपर्यन्तसर्वरोगविनाशनम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| अपवर्गप्रदातारं भक्तकाम्यफलप्रदम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| सिद्धसेवितपादाब्जं सिद्ध्यादिप्रदमीश्वरम्| वैद्यनाथपुरे नित्यं देवं वैद्येश्वरं भजे| बालाम्बिकासमेतं च ब्राह्मणैः पूजितं…

शिव भक्ति कल्पलतिका स्तोत्र

|| शिव भक्ति कल्पलतिका स्तोत्र || श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं श्रीमत्क्व शङ्कर भवच्चरणारविन्दम्। क्वाहं तदेतदुपसेवितुमीहमानो हा हन्त कस्य न भवाम्युपहासपात्रम्। अद्राक्षमङ्घ्रिकमलं न तवेति यन्मे दुःखं यदप्यनवमृश्य दुरात्मतां स्वाम्। पादाम्बुजं तव दिदृक्ष इतीदृगागः पातोऽनले प्रतिकृतिर्गिरिशैतयोर्मे। दौरात्म्यतो मम भवत्पददर्शनेच्छा मन्तुस्तथापि तव सा भजनात्मिकेति। स्यादीशितुर्मयि दयैव दयामकार्षी- रश्मादिभिः प्रहृतवत्सु न किं बिभो त्वम्। दुःखानलोदरनिपातनधूर्वदेष्वे- ष्वर्थाङ्गनासुतमुखेष्वनुराग आगाः। स्यात्ते रुषे तव दयालुतया…

त्यागराज शिव स्तुति

|| त्यागराज शिव स्तुति || नीलकन्धर भाललोचन बालचन्द्रशिरोमणे कालकाल कपालमाल हिमालयाचलजापते। शूलदोर्धर मूलशङ्कर मूलयोगिवरस्तुत त्यागराज दयानिधे कमलापुरीश्वर पाहि माम्। हारकुण्डलमौलिकङ्कण किङ्किणीकृतपन्नग वीरखड्ग कुबेरमित्र कलत्रपुत्रसमावृत। नारदादि मुनीन्द्रसन्नुत नागचर्मकृताम्बर त्यागराज दयानिधे कमलापुरीश्वर पाहि माम्। भूतनाथ पुरान्तकातुल भुक्तिमुक्तिसुखप्रद शीतलामृतमन्दमारुत सेव्यदिव्यकलेवर। लोकनायक पाकशासन शोकवारण कारण त्यागराज दयानिधे कमलापुरीश्वर पाहि माम्। शुद्धमद्धलतालकाहलशङ्खदिव्यरवप्रिय नृत्तगीतरसज्ञ नित्यसुगन्धिगौरशरीर भो। चारुहार सुरासुराधिपपूजनीयपदाम्बुज त्यागराज दयानिधे कमलापुरीश्वर…

चन्द्रमौलि स्तुति

|| चन्द्रमौलि स्तुति || कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम्। सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख। कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप। कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो। दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट। द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम्। पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः। पादनतदेवसङ्घः पशुमनिशं पातु मामीशः। भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे। चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन। यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम्। वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि। यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम्। रमणीयपदसरोजं शमनाहितमाश्रये सततम्। यमिहृन्मानसहंसं शमिताघौघं…

अष्टमूर्ति रक्षा स्तोत्र

|| अष्टमूर्ति रक्षा स्तोत्र || हे शर्व भूरूप पर्वतसुतेश हे धर्म वृषवाह काञ्चीपुरीश। दववास सौगन्ध्य भुजगेन्द्रभूष पृथ्वीश मां पाहि प्रथमाष्टमूर्ते। हे दोषमल जाड्यहर शैलजाप हे जम्बुकेशेश भव नीररूप। गङ्गार्द्र करुणार्द्र नित्याभिषिक्त जललिङ्ग मां पाहि द्वितीयाष्टमूर्ते। हे रुद्र कालाग्निरूपाघनाशिन् हे भस्मदिग्धाङ्ग मदनान्तकारिन्। अरुणाद्रिमूर्तेर्बुर्दशैल वासिन् अनलेश मां पाहि तृतीयाष्टमूर्ते। हे मातरिश्वन् महाव्योमचारिन् हे कालहस्तीश शक्तिप्रदायिन्। उग्र प्रमथनाथ…

तञ्जपुरीश शिव स्तुति

|| तञ्जपुरीश शिव स्तुति || अस्तु ते नतिरियं शशिमौले निस्तुलं हृदि विभातु मदीये। स्कन्दशैलतनयासखमीशानन्दवल्ल्यधिपते तव रूपम्। स्थास्नुजङ्गमगणेपु भवान्तर्यामिभावमवलम्ब्य समस्तम्। निर्वहन् विहरसे तव को वा वैभव प्रभवतु प्रतिपत्तुम्। विश्रुता भुवननिर्मितिपोषप्लोषणप्रतिभुवस्त्वयि तिस्रः। मूर्तयः स्मरहराविरभूवन् निस्समं त्वमसि धाम तुरीयम्। सुन्दरेण शशिकन्दलमौले तावकेन पदतामरसेन। कृत्रिमेतरगिरः कुतुकिन्यः कुर्वते सुरभिलं कुरलं स्वम्। ईशतामविदितावधिगन्धां प्रव्यनक्ति परमेश पदं ते। साशयश्च निगमो विवृणीते कः…

विश्वनाथ दशक स्तोत्र

|| विश्वनाथ दशक स्तोत्र || यस्मात्परं न किल चापरमस्ति किञ्चिज्- ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान्। निष्कम्प एक इति योऽव्ययसौख्यसिन्धु- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। यस्मिंस्तथैव बत विश्वविभेदभानम्। योऽज्ञाननाशनविधौ प्रथितस्तोऽरि- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। यावन्न भक्तिरखिलेश्वरपादपद्मे संसारसौख्यमिह यत्किल शुक्तिरौप्यम्। यद्भक्तिरेव भवरोगनुदा सुधैव तं विश्वनाथममलं मुनिवन्द्यमीडे। यः काममत्तगजगण्डविभेदसिंहो यो विघ्नसर्पभवभीतीनुदो गुरुत्मान्। यो दुर्विषह्यभवतापजदुःखचन्द्र- स्तं विश्वनाथममलं मुनिवन्द्यमीडे। वैराग्यभक्तिनवपल्लवकृद्वसन्तो योभोगवासनावनप्रविदाहदावः। योऽधर्मरावणविनाशनहेतुराम- स्तं…

नटराज प्रसाद स्तोत्र

|| नटराज प्रसाद स्तोत्र || प्रत्यूहध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः। प्रत्यूहसिंहशरभः पातु नः पार्वतीसुतः। चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम्। अपर्णास्वर्णकुम्भाभकुचाश्लिष्टकलेवरम्। विराड्ढृदयपद्मस्थत्रिकोणे शिवया सह। स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु। श्रुतिस्तम्भान्तरेचक्रयुग्मे गिरिजया‌ सह । स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु। शिवकामीकुचाम्भोजसव्यभागविराजितः। स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु। करस्थडमरुध्वानपरिष्कृतरवागमः। स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु। नारदब्रह्मगोविन्दवीणातालमृदङ्गकैः। स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।…

केदारनाथ कवच

|| केदारनाथ कवच || केयूरादिविभूषितैः करतलैरत्नाङ्कितैः सुन्दरं नानाहारविचित्रपन्नगयुतैर्हेमाम्बरैर्मण्डितम्। हस्ताभ्यां धृतखड्गपात्रडमरूशूलं सदा बिभ्रतं वाजीवाहनदैत्यदर्पदलनं केदारमीशं भजे। ॐ केदारः पूर्वतः पातु चाग्नेय्यां रवलेश्वरः। दक्षिणे वारिजाक्षस्तु नैर्ऋत्यां रक्षसूदनः। पश्चिमे पन्नगेशश्च वायव्यां दैत्यनाशकः। उत्तरे उत्तरेशश्च ईशान्यां ईश एव च। ऊर्ध्वं गङ्गाधरः पातु धरायाञ्च त्रिविक्रमः। एवं दशदिशोन्यस्य पश्चादङ्गेषु विन्यसेत्। शिखायां रेणुकानाथो मस्तके भाललोचनः। भालं मे रक्ष भगवन् भ्रूमध्ये मेदिनीपतिः। नेत्रयोर्ज्योतिनाथश्च…

अमरनाथ शिव स्तोत्र

|| अमरनाथ शिव स्तोत्र || भागीरथीसलिलसान्द्रजटाकलापं शीतांशुकान्तिरमणीयविशालभालम्। कर्पूरदुग्धहिमहंसनिभं स्वतोजं नित्यं भजाम्यऽमरनाथमहं दयालुम्। गौरीपतिं पशुपतिं वरदं त्रिनेत्रं भूताधिपं सकललोकपतिं सुरेशम्। शार्दूलचर्मचितिभस्मविभूषिताङ्गं नित्यं भजाम्यऽमरनाथमहं दयालुम्। गन्धर्वयक्षरसुरकिन्नरसिद्धसङ्घैः संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः। सर्वत्रसर्वहृदयैकनिवासिनं तं नित्यं भजाम्यऽमरनाथमहं दयालुम्। व्योमानिलानलजलावनिसोमसूर्य- होत्रीभिरष्टतनुभिर्जगदेकनाथः। यस्तिष्ठतीह जनमङ्गलधारणाय तं प्रार्थयाम्यऽमरनाथमहं दयालुम्। शैलेन्द्रतुङ्गशिखरे गिरिजासमेतं प्रालेयदुर्गमगुहासु सदा वसन्तम्। श्रीमद्गजाननविराजित दक्षिणाङ्कं नित्यं भजाम्यऽमरनाथमहं दयालुम्। वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः शक्यं समाकलयितुं न यदीयरूपम्। तं…

कामेश्वर स्तोत्र

|| कामेश्वर स्तोत्र || ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय। काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम्। कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय। नमत्कलादानधुरन्धराय कामेश्वरायास्तु नतेः सहस्रम्। कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय। दारिद्र्यदावामृतवृष्टये ते कामेश्वरायास्तु नतेः सहस्रम्। कल्याणशैलेषुधयेऽहिराजगुणाय लक्ष्मीधवसायकाय। पृथ्वीरथायागमसैन्धवाय कामेश्वरायास्तु नतेः सहस्रम्। कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके। शल्यापहर्त्रै विनतस्य तस्मै कामेश्वरायास्तु नतेः सहस्रम्। कान्ताय शैलाधिपतेः सुतायाः धटोद्भवात्रेयमुखार्चिताय। अघौघविध्वंसनपण्डिताय कामेश्वरायास्तु नतेः सहस्रम्। कामारये काङ्क्षितदाय शीघ्रं…

शिव आपद् विमोचन स्तोत्र

|| शिव आपद् विमोचन स्तोत्र || श्रीमत्कैरातवेषोद्भटरुचिरतनो भक्तरक्षात्तदीक्ष प्रोच्चण्टारातिदृप्तद्विपनिकरसमुत्सारहर्यक्षवर्य । त्वत्पादैकाश्रयोऽहं निरुपमकरूणावारिधे भूरितप्त- स्त्वामद्यैकाग्रभक्त्या गिरिशसुत विभो स्तौमि देव प्रसीद ॥ पार्थः प्रत्यर्थिवर्गप्रशमनविधये दिव्यमुग्रं महास्त्रं लिप्सुध्र्यायन् महेशं व्यतनुत विविधानीष्टसिध्यै तपांसि । दित्सुः कामानमुष्मै शबरवपुरभूत् प्रीयमाणः पिनाकी तत्पुत्रात्माऽविरासीस्तदनु च भगवन् विश्वसंरक्षणाय ॥ घोरारण्ये हिमाद्रौ विहरसि मृगयातत्परश्चापधारी देव श्रीकण्ठसूनो विशिखविकिरणैः श्वापदानाशु निघ्नन् । एवं भक्तान्तरङ्गेष्वपि विविधभयोद्भ्रान्तचेतोविकारान् धीरस्मेरार्द्रवीक्षानिकरविसरणैश्चापि कारुण्यसिन्धो…

आत्मेश्वर पञ्चरत्न स्तोत्र

|| आत्मेश्वर पञ्चरत्न स्तोत्र || षडाधारोर्ध्वसन्निष्ठं षडुत्कर्षस्थलेश्वरम् । षट्सभारमणं वन्दे षडध्वाराधनक्षमम् ॥ श्रीमत्श्रीकुन्दमूलस्थललसितमहायोगपीठे निषण्णः सर्वाधारो महात्माऽप्यनुपमितमहास्वादिकैलासवासी । यस्यास्ते कामिनी या नतजनवरदा योगमाता महेशी सोऽव्यादात्मेश्वरो मां शिवपुररमणः सच्चिदानन्दमूर्तिः ॥ यो वेदान्तविचिन्त्यरूपमहिमा यं याति सर्वं जगत् येनेदं भुवनं भृतं विधिमुखाः कुर्वन्ति यस्मै नमः । यस्मात् सम्प्रभवन्ति भूतनिकराः यस्य स्मृतिर्मोक्षकृत् यस्मिन् योगरतिःशिवेति स महानात्मेश्वरः पातु नः ॥ तुर्यातीतपदोर्ध्वगं…

शंकर गुरु स्तोत्र

|| शंकर गुरु स्तोत्र || वेदधर्मपरप्रतिष्ठितिकारणं यतिपुङ्गवं केरलेभ्य उपस्थितं भरतैकखण्डसमुद्धरम्। आहिमाद्रिपरापरोक्षितवेदतत्त्वविबोधकं संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्। श्रौतयज्ञसुलग्नमानसयज्वनां महितात्मनां चीर्णकर्मफलाधिसन्धिनिरासनेशसमर्पणम्। निस्तुलं परमार्थदं भवतीति बोधनदायकं संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्। षण्मतं बहुदैवतं भवितेति भेदधिया जनाः क्लेशमाप्य निरन्तरं कलहायमानविधिक्रमम्। माद्रियध्वमिहास्ति दैवतमेकमित्यनुबोधदं संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्। आदिमं पदमस्तु देवसिषेविषा परिकीर्तना- ऽनन्तनामसुविस्तरेण बहुस्तवप्रविधायकम्। तन्मनोज्ञपदेषु तत्त्वसुदायकं करुणाम्बुधिं…

शंकर पंच रत्न स्तोत्र

|| शंकर पंच रत्न स्तोत्र || शिवांशं त्रयीमार्गगामिप्रियं तं कलिघ्नं तपोराशियुक्तं भवन्तम्। परं पुण्यशीलं पवित्रीकृताङ्गं भजे शङ्कराचार्यमाचार्यरत्नम्। करे दण्डमेकं दधानं विशुद्धं सुरैर्ब्रह्मविष्ण्वादिभिर्ध्यानगम्यम्। सुसूक्ष्मं वरं वेदतत्त्वज्ञमीशं भजे शङ्कराचार्यमाचार्यरत्नम्। रवीन्द्वक्षिणं सर्वशास्त्रप्रवीणं समं निर्मलाङ्गं महावाक्यविज्ञम्। गुरुं तोटकाचार्यसम्पूजितं तं भजे शङ्कराचार्यमाचार्यरत्नम्। चरं सच्चरित्रं सदा भद्रचित्तं जगत्पूज्यपादाब्जमज्ञाननाशम्। जगन्मुक्तिदातारमेकं विशालं भजे शङ्कराचार्यमाचार्यरत्नम्। यतिश्रेष्ठमेकाग्रचित्तं महान्तं सुशान्तं गुणातीतमाकाशवासम्। निरातङ्कमादित्यभासं नितान्तं भजे शङ्कराचार्यमाचार्यरत्नम्। पठेत्…

गुरुपादुका स्तोत्र

|| गुरुपादुका स्तोत्र || जगज्जनिस्तेम- लयालयाभ्यामगण्य- पुण्योदयभाविताभ्याम्। त्रयीशिरोजात- निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्। विपत्तमःस्तोम- विकर्तनाभ्यां विशिष्टसंपत्ति- विवर्धनाभ्याम्। नमज्जनाशेष- विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। समस्तदुस्तर्क- कलङ्कपङ्कापनोदन- प्रौढजलाशयाभ्याम्। निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। तापत्रयादित्य- करार्दितानां छायामयीभ्यामति- शीतलाभ्याम्। आपन्नसंरक्षण- दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः। ताभ्यामजेशाच्युत- भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्। ये पादुकापञ्चकमादरेण पठन्ति नित्यं…

रामानुज स्तोत्र

|| रामानुज स्तोत्र || पाषण्डद्रुमषण्डदाव- दहनश्चार्वाकशैलाशनि- र्बौद्धध्वान्तनिरासवासर- पतिर्जैनेभकण्ठीरवः। मायावादिभुजङ्गभङ्ग- गरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः। पाषण्डषण्डगिरि- खण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालय- मन्थदण्डाः। वेदान्तसारसुख- दर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः। चारित्रोद्धारदण्डं चतुरनयपथा- लङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम्। त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्र- सौवर्णदण्डं धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम्। त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथा- रोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम्। प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम्। पाषण्डसागर- महावडवामुखाग्निः श्रीरङ्गराज-…

दत्त गुरु स्तोत्र

|| दत्त गुरु स्तोत्र || सुनीलमणिभासुरा- दृतसुरातवार्ता सुरा- सुरावितदुराशरावित- नरावराशाम्बरा। वरादरकरा कराक्षणधरा धरापादराद- रारवपरा परा तनुरिमां स्मराम्यादरात् । सदादृतपदा पदाहृतपदा सदाचारदा सदानिजहृदास्पदा शुभरदा मुदा सम्मदा। मदान्तकपदा कदापि तव दासदारिद्रहा वदान्यवरदास्तु मेऽन्तर उदारवीरारिहा। जयाजतनयाभया सदुदया दयार्द्राशया शयात्तविजयाजया तव तनुस्तया हृत्स्थया। नयादरदया दयाविशदया वियोगोनया तयाश्रय न मे हृदास्तु शुभया भया भातया। चिदात्यय उरुं गुरुं यमृषयोपि चेरुर्गुरुः स्वशान्तिविजितागुरुः…

वेदसार दक्षिणामूर्ति स्तुति

|| वेदसार दक्षिणामूर्ति स्तुति || वृतसकलमुनीन्द्रं चारुहासं सुरेशं वरजलनिधिसंस्थं शास्त्रवादीषु रम्यम्। सकलविबुधवन्द्यं वेदवेदाङ्गवेद्यं त्रिभुवनपुरराजं दक्षिणामूर्तिमीडे। विदितनिखिलतत्त्वं देवदेवं विशालं विजितसकलविश्वं चाक्षमालासुहस्तम्। प्रणवपरविधानं ज्ञानमुद्रां दधानं त्रिभुवनपुरराजं दक्षिणामूर्तिमीडे। विकसितमतिदानं मुक्तिदानं प्रधानं सुरनिकरवदन्यं कामितार्थप्रदं तम्। मृतिजयममरादिं सर्वभूषाविभूषं त्रिभुवनपुरराजं दक्षिणामूर्तिमीडे। विगतगुणजरागं स्निग्धपादाम्बुजं तं त्निनयनमुरमेकं सुन्दराऽऽरामरूपम। रविहिमरुचिनेत्रं सर्वविद्यानिधीशं त्रिभुवनपुरराजं दक्षिणामूर्तिमीडे। प्रभुमवनतधीरं ज्ञानगम्यं नृपालं सहजगुणवितानं शुद्धचित्तं शिवांशम्। भुजगगलविभूषं भूतनाथं भवाख्यं त्रिभुवनपुरराजं दक्षिणामूर्तिमीडे।

ब्रह्मविद्या पंचक स्तोत्र

|| ब्रह्मविद्या पंचक स्तोत्र || नित्यानित्यविवेकतो हि नितरां निर्वेदमापद्य सद्- विद्वानत्र शमादिषट्कलसितः स्यान्मुक्तिकामो भुवि। पश्चाद्ब्रह्मविदुत्तमं प्रणतिसेवाद्यैः प्रसन्नं गुरुं पृच्छेत् कोऽहमिदं कुतो जगदिति स्वामिन्! वद त्वं प्रभो। त्वं हि ब्रह्म न चेन्द्रियाणि न मनो बुद्धिर्न चित्तं वपुः प्राणाहङ्कृतयोऽन्यद- प्यसदविद्याकल्पितं स्वात्मनि। सर्वं दृश्यतया जडं जगदिदं त्वत्तः परं नान्यतो जातं न स्वत एव भाति मृगतृष्णाभं दरीदृश्यताम्। व्यप्तं येन…

दक्षिणामूर्ति दशक स्तोत्र

|| दक्षिणामूर्ति दशक स्तोत्र || पुन्नागवारिजातप्रभृतिसुमस्रग्विभूषितग्रीवः। पुरगर्वमर्दनचणः पुरतो मम भवतु दक्षिणामूर्तिः। पूजितपदाम्बुजातः पुरुषोत्तमदेवराजपद्मभवैः। पूगप्रदः कलानां पुरतो मम भवतु दक्षिणामूर्तिः। हालाहलोज्ज्वलगलः शैलादिप्रवरगणैर्वीतः। कालाहङ्कृतिदलनः पुरतो मम भवतु दक्षिणामूर्तिः। कैलासशैलानलयो लीलालेशेन निर्मिताजाण्डः। बालाब्जकृतावतंसः पुरतो मम भवतु दक्षिणामूर्तिः। चेलाजितकुन्ददुग्धो लोलः शैलाधिराजतनयायाम्। फालविराजद्वह्निः पुरतो मम भवतु दक्षिणामूर्तिः। न्यग्रोधमूलवासी न्यक्कृतचन्द्रो मुखाम्बुजातेन। पुण्यैकलभ्यचरणः पुरतो मम भवतु दक्षिणामूर्तिः। मन्दार आनतततेर्वृन्दारकवृन्दवन्दितपदाब्जः। वन्दारुपूर्णकरुणः पुरतो मम…

मृत्युहरण नारायण स्तोत्र

|| मृत्युहरण नारायण स्तोत्र || नारायणं सहस्राक्षं पद्मनाभं पुरातनम्। हृषीकेशं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति। गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्। केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति। वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम्। दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति। शङ्खचक्रधरं देवं छत्ररूपिणमव्ययम्। अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति। वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्। माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति। पुरुषं…

हरि कारुण्य स्तोत्र

|| हरि कारुण्य स्तोत्र || या त्वरा जलसञ्चारे या त्वरा वेदरक्षणे। मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे। या त्वरा मन्दरोद्धारे या त्वराऽमृतरक्षणे। मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे। या त्वरा क्रोडवेषस्य विधृतौ भूसमृद्धृतौ। मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे। या त्वरा चान्द्रमालाया धारणे पोथरक्षणे। मय्यार्त्ते करुणामूर्ते सा त्वरा क्व गता हरे। या…

विष्णु षट्पदी स्तोत्र

|| विष्णु षट्पदी स्तोत्र || अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्। भूतदयां विस्तारय तारय समसारसागरतः। दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे। श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे। सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्। सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः। उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे। दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः। मत्स्यादिभिरवतारै- रवतारवतावता सदा वसुधाम्। परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्। दामोदर गुणमन्दिर सुन्दरवदनारविन्द…

हरिपदाष्टक स्तोत्र

|| हरिपदाष्टक स्तोत्र || भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम्। नलिनचक्रगदाधरमव्ययं भजत रे मनुजाः कमलापतिम्। अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम्। जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम्। किमु जपैश्च तपोभिरुताध्वरै- रपि किमुत्तमतीर्थनिषेवणैः। किमुत शास्त्रकदम्बविलोकणै- र्भजत रे मनुजाः कमलापतिम्। मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम्। विषयलम्पटतामवहाय वै भजत रे मनुजाः कमलापतिम्। न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः।…

शेषाद्रि नाथ स्तोत्र

|| शेषाद्रि नाथ स्तोत्र || अरिन्दमः पङ्कजनाभ उत्तमो जयप्रदः श्रीनिरतो महामनाः। नारायणो मन्त्रमहार्णवस्थितः शेषाद्रिनाथः कुरुतां कृपां मयि। मायास्वरूपो मणिमुख्यभूषितः सृष्टिस्थितः क्षेमकरः कृपाकरः। शुद्धः सदा सत्त्वगुणेन पूरितः शेषाद्रिनाथः कुरुतां कृपां मयि। प्रद्युम्नरूपः प्रभुरव्ययेश्वरः सुविक्रमः श्रेष्ठमतिः सुरप्रियः। दैत्यान्तको दुष्टनृपप्रमर्दनः शेषाद्रिनाथः कुरुतां कृपां मयि। सुदर्शनश्चक्रगदाभुजः परः पीताम्बरः पीनमहाभुजान्तरः। महाहनुर्मर्त्यनितान्तरक्षकः शेषाद्रिनाथः कुरुतां कृपां मयि। ब्रह्मार्चितः पुण्यपदो विचक्षणः स्तम्भोद्भवः श्रीपतिरच्युतो…

हयानन पंचक स्तोत्र

|| हयानन पंचक स्तोत्र || उरुक्रममुदुत्तमं हयमुखस्य शत्रुं चिरं जगत्स्थितिकरं विभुं सवितृमण्डलस्थं सुरम्। भयापहमनामयं विकसिताक्षमुग्रोत्तमं हयाननमुपास्महे मतिकरं जगद्रक्षकम्। श्रुतित्रयविदां वरं भवसमुद्रनौरूपिणं मुनीन्द्रमनसि स्थितं बहुभवं भविष्णुं परम्। सहस्रशिरसं हरिं विमललोचनं सर्वदं हयाननमुपास्महे मतिकरं जगद्रक्षकम्। सुरेश्वरनतं प्रभुं निजजनस्य मोक्षप्रदं क्षमाप्रदमथाऽऽशुगं महितपुण्यदेहं द्विजैः। महाकविविवर्णितं सुभगमादिरूपं कविं हयाननमुपास्महे मतिकरं जगद्रक्षकम्। कमण्डलुधरं मुरद्विषमनन्त- माद्यच्युतं सुकोमलजनप्रियं सुतिलकं सुधास्यन्दितम्। प्रकृष्टमणिमालिकाधरमुरं दयासागरं हयाननमुपास्महे…

गणाधिपाष्टकम्

|| गणाधिपाष्टकम् || श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः । अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥ सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम् । प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥ द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः । नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥ कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः । तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः ॥ गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् । करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥ दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः…

श्री गणेश पञ्चरत्न स्तोत्रम्

|| श्रीगणेशपञ्चरत्नस्तोत्रम् || श्रीगणेशाय नमः ॥ मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं…

वेंकटेश अष्टक स्तुति

|| वेंकटेश अष्टक स्तुति || यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात् सुरवर्यवर्य। शेषाचले तिष्ठति योऽनवद्ये तं वेङ्कटेशं शरणं प्रपद्ये। पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः। हंसात्मनादिष्ट- निजस्वभावस्तं वेङ्कटेशं शरणं प्रपद्ये। महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य। तथापि योऽर्थं भुवि सञ्चिनोति तं वेङ्कटेशं शरणं प्रपद्ये। य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम्। यत्पादमीक्षन्ति तरन्ति ते वै तं वेङ्कटेशं शरणं प्रपद्ये। प्रसीद लक्ष्मीरमण प्रसीद प्रसीद…

विष्णु पंचक स्तोत्र

|| विष्णु पंचक स्तोत्र || उद्यद्भानुसहस्रभास्वर- परव्योमास्पदं निर्मल- ज्ञानानन्दघनस्वरूप- ममलज्ञानादिभिः षड्गुणैः। जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्त- भोगिनिलयं श्रीवासुदेवं भजे। आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम्। कुर्वाणान् मतिमुख्यषड्गुणवरै- र्युक्तांस्त्रियुग्मात्मकै- र्व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे। वेदान्वेषणमन्दराद्रिभरण- क्ष्मोद्धारणस्वाश्रित- प्रह्लादावनभूमिभिक्षण- जगद्विक्रान्तयो यत्क्रियाः। दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः। यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे…

वरद विष्णु स्तोत्र

|| वरद विष्णु स्तोत्र || जगत्सृष्टिहेतो द्विषद्धूमकेतो रमाकान्त सद्भक्तवन्द्य प्रशान्त| त्वमेकोऽतिशान्तो जगत्पासि नूनं प्रभो देव मह्यं वरं देहि विष्णो| भुवः पालकः सिद्धिदस्त्वं मुनीनां विभो कारणानां हि बीजस्त्वमेकः| त्वमस्युत्तमैः पूजितो‌ लोकनाथ प्रभो देव मह्यं वरं देहि विष्णो| अहङ्कारहीनोऽसि भावैर्विहीन- स्त्वमाकारशून्योऽसि नित्यस्वरूपः| त्वमत्यन्तशुद्धोऽघहीनो नितान्तं प्रभो देव मह्यं वरं देहि विष्णो| विपद्रक्षक श्रीश कारुण्यमूर्ते जगन्नाथ सर्वेश नानावतार| अहञ्चाल्पबुद्धिस्त्वमव्यक्तरूपः…

श्रीधर पंचक स्तोत्र

|| श्रीधर पंचक स्तोत्र || कारुण्यं शरणार्थिषु प्रजनयन् काव्यादिपुष्पार्चितो वेदान्तेडिविग्रहो विजयदो भूम्यैकशृङ्गोद्धरः। नेत्रोन्मीलित- सर्वलोकजनकश्चित्ते नितान्तं स्थितः कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। साङ्गाम्नायसुपारगो विभुरजः पीताम्बरः सुन्दरः कंसारातिरधोक्षजः कमलदृग्गोपालकृष्णो वरः। मेधावी कमलव्रतः सुरवरः सत्यार्थविश्वंभरः कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। हंसारूढजगत्पतिः सुरनिधिः स्वर्णाङ्गभूषोज्जवलः सिद्धो भक्तपरायणो द्विजवपुर्गोसञ्चयैरावृतः। रामो दाशरथिर्दयाकरघनो गोपीमनःपूरितो कल्याणं विदधातु लोकभगवान् कामप्रदः श्रीधरः। हस्तीन्द्रक्षयमोक्षदो जलधिजाक्रान्तः प्रतापान्वितः कृष्णाश्चञ्चल-…

सुदर्शन कवच

|| सुदर्शन कवच || प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद। सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्त्वतः। श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम्। सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम्। कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम्। सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते। ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते। शिरः सुदर्शनः पातु ललाटं चक्रनायकः। घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम। सहस्रारः श‍ृतिं पातु कपोलं देववल्लभः।…

हरि नामावलि स्तोत्र

|| हरि नामावलि स्तोत्र || गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम्। गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम्। नारायणं निराकारं नरवीरं नरोत्तमम्। नृसिंहं नागनाथं च तं वन्दे नरकान्तकम्। पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम्। पवित्रं परमानन्दं तं वन्दे परमेश्वरम्। राघवं रामचन्द्रं च रावणारिं रमापतिम्। राजीवलोचनं रामं तं वन्दे रघुनन्दनम्। वामनं विश्वरूपं च वासुदेवं च विठ्ठलम्। विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम्।…

वेंकटेश विभक्ति स्तोत्र

|| वेंकटेश विभक्ति स्तोत्र || श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा। निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा। जय जनता विमलीकृतिसफलीकृतसकलमङ्गलाकार। विजयी भव विजयी भव विजयी भव वेङ्कटाचलाधीश। कनीयमन्दहसितं कञ्चन कन्दर्पकोटिलावण्यम्। पश्येयमञ्जनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम्। मरतकमेचकरुचिना मदनाज्ञागन्धिमध्यहृदयेन। वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम्। पत्यै नमो वृषाद्रेः करयुगपरिकर्मशङ्खचक्राय। इतरकरकमलयुगलीदर्शितकटिबन्धदानमुद्राय। साम्राज्यपिशुनमकुटीसुघटललाटात् सुमङ्गला पाङ्गात्। स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेङ्कटाद्रीशात्। सर्वाभरणविभूषितदिव्यावयवस्य वेङ्कटाद्रिपतेः। पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा। लक्ष्मीललितपदाम्बुजलाक्षारसरञ्जितायतोरस्के।…

वेंकटेश द्वादश नाम स्तोत्र

|| वेंकटेश द्वादश नाम स्तोत्र || अस्य श्रीवेङ्कटेशद्वादशनामस्तोत्रमहामन्त्रस्य। ब्रह्मा-ऋषिः। अनुष्टुप्-छन्दः श्रीवेङ्कटेश्वरो देवता। इष्टार्थे विनियोगः। नारायणो जगन्नाथो वारिजासनवन्दितः। स्वामिपुष्करिणीवासी शन्ङ्खचक्रगदाधरः। पीताम्बरधरो देवो गरुडासनशोभितः। कन्दर्पकोटिलावण्यः कमलायतलोचनः। इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः। विश्वात्मा विश्वलोकेशो जयश्रीवेङ्कटेश्वरः। एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः। दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान्। जनवश्यं राजवश्य सर्वकामार्थसिद्धिदम्। दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति। ग्रहरोगादिनाशं च कामितार्थफलप्रदम्। इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात्।

विष्णु दशावतार स्तुति

|| विष्णु दशावतार स्तुति || मग्ना यदाज्या प्रलये पयोधा बुद्धारितो येन तदा हि वेदः। मीनावताराय गदाधराय तस्मै नमः श्रीमधुसूदनाय। कल्पान्तकाले पृथिवीं दधार पृष्ठेऽच्युतो यः सलिले निमग्नाम्। कूर्मावताराय नमोऽस्तु तस्मै पीताम्बराय प्रियदर्शनाय। रसातलस्था धरणी किलैषा दंष्ट्राग्रभागेन धृता हि येन। वराहरूपाय जनार्दनाय तस्मै नमः कैटभनाशनाय। स्तम्भं विदार्य प्रणतं हि भक्तं रक्ष प्रह्लादमथो विनाश्य। दैत्यं नमो यो नरसिंहमूर्तिर्दीप्तानलार्कद्युतये…

नवग्रह स्तोत्र

|| नवग्रह स्तोत्र || जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ।। दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।। धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ।। प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।। देवानाञ्च ऋषीणाञ्च गुरुं काञ्चनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।। हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्…

शनैश्चर स्तोत्र

|| शनैश्चर स्तोत्र || अथ दशरथकृतं शनैश्चरस्तोत्रम्। नमः कृष्णाय नीलाय शितिकण्ठनिभाय च। नमः कालाग्निरूपाय कृतान्ताय च वै नमः। नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च। नमो विशालनेत्राय शुष्कोदर भयाकृते। नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः। नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते। नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः। नमो घोराय रौद्राय भीषणाय कपालिने। नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते। सूर्यपुत्र नमस्तेऽस्तु भास्करे…

नवग्रह पीडाहर स्तोत्र

|| नवग्रह पीडाहर स्तोत्र || ग्रहाणामादिरादित्यो लोकरक्षणकारकः। विषणस्थानसंभूतां पीडां हरतु मे रविः। रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः। विषणस्थानसंभूतां पीडां हरतु मे विधुः। भूमिपुत्रो महातेजा जगतां भयकृत् सदा। वृष्टिकृद्धृष्टिहर्ता च पीडां हरतु मे कुजः। उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः। सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः। देवमन्त्री विशालाक्षः सदा लोकहिते रतः। अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः। दैत्यमन्त्री गुरुस्तेषां प्राणदश्च…

Join WhatsApp Channel Download App